प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.20.1 TS 7.5.20.1
जज्ञि॒ बीजं॒ ॅवर्ष्टा॑ प॒र्जन्यः॒ पक्ता॑ स॒स्यꣳ सु॑पिप्प॒ला ओष॑धयः स्वधिचर॒णेयꣳ सू॑पसद॒नो᳚ऽग्निः स्व॑द्ध्य॒क्षम॒न्तरि॑क्षꣳसुपा॒वः पव॑मानः सूपस्था॒ना द्यौः शि॒वम॒सौ तप॑न् यथापू॒र्वम॑होरा॒त्रे प॑ञ्चद॒शिनो᳚ ऽर्द्धमा॒सा-स्त्रिꣳ॒॒शिनो॒ मासाः᳚ क्लृ॒प्ता ऋ॒तवः॑ शा॒न्तः सं॑ॅवथ्स॒रः ॥
पदपाठः (Word-by-word)
जज्ञि॑ । बीज᳚म् । वर्ष्टा᳚ । प॒र्जन्यः॑ । पक्ता᳚ । स॒स्यम् । सु॒पि॒प्प॒ला इति॑ सु - पि॒प्प॒लाः । ओष॑धयः । स्व॒धि॒च॒र॒णेति॑ सु - अ॒धि॒च॒र॒णा । इ॒यम् । सू॒प॒स॒द॒न इति॑ सु - उ॒प॒स॒द॒नः । अ॒ग्निः । स्व॒द्ध्य॒क्षमिति॑ सु - अ॒द्ध्य॒क्षम् । अ॒न्तरि॑क्षम् । सु॒पा॒व इति॑ सु-पा॒वः । पव॑मानः । सू॒प॒स्था॒नेति॑ सु - उ॒प॒स्था॒ना । द्यौः । शि॒वम् । अ॒सौ । तपन्न्॑ । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । प॒ञ्च॒द॒शिन॒ इति॑ पञ्च - द॒शिनः॑ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । त्रिꣳ॒॒शिनः॑ । मासाः᳚ । क्लृ॒प्ताः । ऋ॒तवः॑ । शा॒न्तः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः ॥
पदसंख्या: 31
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

(SB) 1अथान्ये अन्नहोममन्त्रा उच्यन्ते । तथा च ब्राह्मणम् - 'जज्ञि बीजमिति जुहोत्यनन्तरित्यै' इति । जज्ञीति ॥ यदेतत् व्रीह्यादिबीजं तत् जज्ञि जननस्वभावमस्तु । अस्त्विति सर्वत्राध्याहारः । पर्जन्यो वर्ष्टा वृष्टिकारोस्तु । सस्यं पक्ता पाकशीलम् । ओषधयश्च सुपिप्पलाः शोभनफलाः । इयं पृथिवी स्वधिचरणा सुखेनाधिष्ठाय चरितुं शक्या । अग्निः सूपसदनः सुखेनोपसत्तुं परिचरितुं शक्यः । अन्तरिक्षं स्वध्यक्षं सुखेनाध्यक्षितव्यं धूमकेत्वाद्युत्पातरहितमित्यर्थः । पवमानः वायुः सुपावः अनुपद्रवकारी सञ्चारयुक्तः । द्यौः सूपस्थाना सुखेनावस्थातुं शक्या दैविकोपद्रवरहितेत्यर्थः । असो आदित्यः शिवं उपद्रवराहित्यं यथा भवति तथा तपन् वर्तताम् । अहोरात्रे यथापूर्वं कल्पादेवारभ्य येन क्रमेण प्रवृत्ते तथैवाद्यापि प्रवर्तेताम् । अर्धमासाः

न्यूनाधिकराहित्येन पञ्चदशदिनयुक्ताः । तथा मासाः त्रिंशद्दिनयुक्ताः । ऋतवः कॢप्ताः तत्तल्लक्षणोपेताः । संवत्सरः शान्तः प्रजापीडरहितः । एतैः पञ्चदशभिर्मन्त्रैः अन्नहोमाः कर्तव्याः ॥

इति माधवीये सप्तमे पञ्चमे विंशोनुवाकः ॥