प्र॒थ॒मे मा॒सि पृ॒ष्ठान्युप॑ यन्ति मद्ध्य॒म उप॑ यन्त्युत्त॒म उप॑ यन्ति॒ तदा॑हु॒र्यां ॅवै त्रिरेक॒स्याह्न॑ उप॒सीद॑न्ति द॒ह्रं ॅवै साऽप॑राभ्यां॒ दोहा᳚भ्यां दु॒हेऽथ॒ कुतः॒ सा धो᳚क्ष्यते॒ यां द्वाद॑श॒ कृत्व॑ उप॒सीद॒न्तीति॑ संॅवथ्स॒रꣳ स॒पांद्यो᳚त्त॒मे मा॒सि स॒कृत् पृ॒ष्ठान्युपे॑यु॒स्तद्-यज॑माना य॒ज्ञ्ं प॒शूनव॑ रुन्धते समु॒द्रं ॅवा - [ ]
पदपाठः (Word-by-word)
प्र॒थ॒मे । मा॒सि । पृ॒ष्ठानि॑ । उपेति॑ । य॒न्ति॒ । म॒द्ध्य॒मे । उपेति॑ । य॒न्ति॒ । उ॒त्त॒म इत्यु॑त् - त॒मे । उपेति॑ । य॒न्ति॒ । तत् । आ॒हुः॒ । याम् । वै । त्रिः । एक॑स्य । अह्नः॑ । उ॒प॒सीद॒न्तीत्यु॑प - सीद॑न्ति । द॒ह्रम् । वै । सा । अप॑राभ्याम् । दोहा᳚भ्याम् । दु॒हे॒ । अथ॑ । कुतः॑ । सा । धो॒क्ष्य॒ते॒ । याम् । द्वाद॑श । कृत्वः॑ । उ॒प॒सीद॒न्तीत्यु॑प - सीद॑न्ति । इति॑ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । स॒पांद्येति॑ सं - पाद्य॑ । उ॒त्त॒म इत्यु॑त् - त॒मे । मा॒सि । स॒कृत् । पृ॒ष्ठानि॑ । उपेति॑ । इ॒युः॒ । तत् । यज॑मानाः । य॒ज्ञ्म् । प॒शून् । अवेति॑ । रु॒न्ध॒ते॒ । स॒मु॒द्रम् । वै ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 उक्तं मासिमासि पृष्ठोपेतं दशमास्यं द्वादशमास्यं च द्विप्रकारं गवामयनम् । इदानीं तृतीयं प्रस्तूयते - प्रथम इत्यादि ॥ प्रथममध्यमोत्तमेष्वेव मासेषु पृष्ठान्युपेयुरिति । अथैतत्तृतीयदूषणेन चतुर्थं दर्शयति - तदाहुरिति । तत् तदर्थं या गामेकस्याह्नस्त्रिरुपसीदन्ति दुहन्ति सा अपराभ्यां द्वितीयतृतीयाभ्यां दह्रमल्पमेव क्षीरं दुहे दुग्धे हरति यदेवं सा कुतो धोक्ष्यते यां सत्रधेनुं द्वादकृत्व उपसीदन्ति न किंचिदपि सा दुग्धे । तस्मादभिप्लवैरेव संवत्सरं संपाद्य उत्तमे मासि सकृत्पृष्ठान्युपेयुः । ततो यजमानाः यज्ञं धेनुस्थानीयं पशूंश्च तत्क्षीरस्थानीयानवरुन्धते । दुह इति कर्मकर्तरि 'न दुहस्नुनमाम्' इति यगभावः । 'लोपस्त' इत्यादिना तलोपः ॥
2 समुद्रं वा इत्यादि - परागर्वाक्तीरे पारावारौ, ताभ्यां रहितं समुद्रमेते प्तप्लवन्ते ये संवत्सरमुपयन्ति । अगाधं अपारमित्येके । तत्र यद्बृहद्रथन्तरे अन्वर्जेयुः अविच्छेदेन स्वीकुर्युः तत्समुद्रस्य मध्ये प्लवस्वीकरणसदृशं वेदितव्यम् । अर्ज आर्जने, तस्मात् अमुत्सर्गमनुत्सृज्य छान्दसो णमुल् । अनुत्सृष्टबृहद्रथन्तरप्लवा एव ताभ्यां इत्या संवत्सरं समुद्रं समतीत्य प्रतिष्ठां गच्छन्ति ॥
3 सर्वेभ्य इत्यादि ॥ सन्धिः सकृद्दोह्या गौः न पुनःपुनर्दोह्या । सन्धिर्हि सर्वेभ्यः कामेभ्यः पर्याप्तं क्षीरं दुहे दुग्धे; तद्वत्सत्रधेनुरपि सकृत्पृष्ठोपयानेन सन्धिसदृशी सकृदेव सर्वान्कामान् दुग्धे । तस्माद्दोहनस्थानीयं पृष्ठोपयानं सकृत्कुर्वन्तो यजमानाः सर्वान्कामानवरुन्धत इति । अन्य आहुः - अन्यवत्सदोह्या गौः सन्धिरिति । सा हि सर्वकामपर्याप्तं क्षीरं पुनर्दोहेन क्षरति तद्वत्सत्रसन्धिरपि अन्यवत्सस्थानीयाभ्यां बृहद्रथन्तराभ्यामनुत्सर्गेण दुह्यमाना सर्वान् कामान् प्रयच्छतीति ॥
इति सप्तमे पञ्चमे तृतीयोनुवाकः ॥