स॒मा॒न्य॑ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒व न य॑न्त्य॒न्यद॑न्य॒थ् साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒वान्यम॑न्यं मनुष्यलो॒कं प्र॑त्यव॒रोह॑न्तो यन्ति॒ जग॑ती॒मग्र॒ उप॑ यन्ति॒ जग॑तीं॒ ॅवै छन्दाꣳ॑सि प्र॒त्यव॑रोहन्त्या-ग्रय॒णं ग्रहा॑ बृ॒हत् पृ॒ष्ठानि॑ त्रयस्त्रिꣳ॒॒शꣳस्तोमा॒-स्तस्मा॒-ज्ज्यायाꣳ॑सं॒ कनी॑यान् प्र॒त्यव॑रोहति वैश्वकर्म॒णो गृ॑ह्यते॒विश्वा᳚न्ये॒व तेन॒ कर्मा॑णि॒ यज॑माना॒ अव॑ रुन्धत आदि॒त्यो-[ ]
पदपाठः (Word-by-word)
स॒मा॒न्यः॑ । ऋचः॑ । भ॒व॒न्ति॒ । म॒नु॒ष्य॒लो॒क इति॑ मनुष्य - लो॒कः । वै । ऋचः॑ । म॒नु॒ष्य॒लो॒कादिति॑ मनुष्य - लो॒कात् । ए॒व । न । य॒न्ति॒ । अ॒न्यद॑न्य॒दित्य॒न्यत् - अ॒न्य॒त् । साम॑ । भ॒व॒ति॒ । दे॒व॒लो॒क इति॑ देव - लो॒कः । वै । साम॑ । दे॒व॒लो॒कादिति॑ देव - लो॒कात् । ए॒व । अ॒न्यम॑न्य॒मित्य॒न्यं - अ॒न्य॒म् । म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् । प्र॒त्य॒व॒रोह॑न्त॒ इति॑ प्रति - अ॒व॒रोह॑न्तः । य॒न्ति॒ । जग॑तीम् । अग्रे᳚ । उपेति॑ । य॒न्ति॒ । जग॑तीम् । वै । छन्दाꣳ॑सि । प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति । आ॒ग्र॒य॒णम् । ग्रहाः᳚ । बृ॒हत् । पृ॒ष्ठानि॑ । त्र॒य॒स्त्रिꣳ॒॒शमिति॑ त्रयः - त्रिꣳ॒॒शम् । स्तोमाः᳚ । तस्मा᳚त् । ज्यायाꣳ॑सम् । कनी॑यान् । प्र॒त्यव॑रोह॒तीति॑ प्रति - अव॑रोहति । वै॒श्व॒क॒र्म॒ण इति॑ वैश्व - क॒र्म॒णः । गृ॒ह्य॒ते॒ । विश्वा॑नि । ए॒व । तेन॑ । कर्मा॑णि । यज॑मानाः । अवेति॑ । रु॒न्ध॒ते॒ । आ॒दि॒त्यः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथोत्तरस्मिन् पक्षसि विशेष उच्यते - समान्य इत्यादि ॥ समान्यः एकाः । 'केवलमामक' इति ङीप्, 'उदात्तस्वरितयोः' इति विभक्तिस्स्वर्यते । ता एव ऋचो न पृथक् ग्राह्याः । उत्तरस्मिन् पक्षसि मनुष्यलोकादेव न यन्ति अपत्यादिसन्तानविच्छेदेन । अन्यदन्यदित्यादि । बहवो देवलोकाः, तत्र सामतः तस्मात् देवलोकात् इष्टं मनुष्यलोकं प्रत्यवरोहन्त एव यन्ति उप यन्ति सत्रम् ॥
2 जगतीमग्र इति ॥ विस्पष्टम् । अत ऊर्ध्वमुत्तरस्मिन् पक्षस्यह्नां परावृत्तत्वात् जगतीं वै छन्दांसि प्रत्यवरोहन्ति तदभिमुखं न्यग्भावेन गच्छन्ति । आग्रयणं ग्रहाः प्रत्यवरोहन्तीत्येव । आग्रयणाग्रत्वात् ग्रहाणाम् । बृहत् प्रत्यवरोहन्ति पृष्ठानि सामानि तत्प्रधानत्वात् । त्रयस्त्रिंशं प्रत्यवरोहन्ति स्तोमाः ततो न्यूनत्वात् । तस्मादित्यादि । गतम् । ज्यायांसं कनीयान् प्रत्यवरोहति ॥
3 वैश्वकर्मणोतिग्राह्यो गृह्यते आदित्यश्च । अन्योन्य इति । एकैकस्य गृह्यते आमहाव्रतात् महाव्रते सहगृह्येते ॥
4 अवान्तरं वा इत्यादि ॥ व्याख्यातं 'द्वे वाव' इत्यत्र द्वादशाहियो दशरात्रोपि विधीयते । समाप्तं गवामयनम् ॥
इति सप्तमे पञ्चमे चतुर्थोनुवाकः ॥