सं॑ॅवथ्स॒रो य ए॒वं ॅवि॒द्वाꣳसः॑ संॅवथ्स॒र-मु॑प॒यन्त्यृ॑द्ध्नु॒वन्त्ये॒व तस्मा᳚त् तूप॒रा वार्.षि॑कौ॒ मासौ॒ पर्त्वा॑ चरति स॒त्राभि॑जितꣳ॒॒ह्य॑स्यै॒ तस्मा᳚थ् संॅवथ्सर॒सदो॒ यत् किं च॑ गृ॒हे क्रि॒यते॒ तदा॒प्त-मव॑रुद्ध-म॒भिजि॑तं क्रियते समु॒द्रं ॅवा ए॒ते प्र प्ल॑वन्ते॒ ये सं॑ॅवथ्स॒रमु॑प॒यन्ति॒ यो वै स॑मु॒द्रस्य॑ पा॒रं न पश्य॑ति॒ न वै स तत॒ उदे॑ति संॅवथ्स॒रो - [ ]
पदपाठः (Word-by-word)
सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ये । ए॒वम् । वि॒द्वाꣳसः॑ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । ऋ॒द्ध्नु॒वन्ति॑ । ए॒व । तस्मा᳚त् । तू॒प॒रा । वार्.षि॑कौ । मासौ᳚ । पर्त्वा᳚ । च॒र॒ति॒ । स॒त्राभि॑जित॒मिति॑ स॒त्र - अ॒भि॒जि॒त॒म् । हि । अ॒स्यै॒ । तस्मा᳚त् । सं॒ॅव॒थ्स॒र॒सद॒ इति॑ संॅवथ्सर - सदः॑ । यत् । किम् । च॒ । गृ॒हे । क्रि॒यते᳚ । तत् । आ॒प्तम् । अव॑रुद्ध॒मित्यव॑-रु॒द्ध॒म् । अ॒भिजि॑त॒मित्य॒भि - जि॒त॒म् । क्रि॒य॒ते॒ । स॒मु॒द्रम् । वै । ए॒ते । प्रेति॑ । प्ल॒व॒न्ते॒ । ये । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । उ॒प॒यन्तीत्यु॑प-यन्ति॑ । यः । वै । स॒मु॒द्रस्य॑ । पा॒रम् । न । पश्य॑ति । न । वै । सः । ततः॑ । उदिति॑ । ए॒ति॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः ।