प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.1.3 TS 7.5.1.3
वै स॑मु॒द्रस्तस्यै॒तत् पा॒रं ॅयद॑तिरा॒त्रौ य ए॒वं ॅवि॒द्वासः॑ संॅवथ्स॒र-मु॑प॒यन्त्यना᳚र्ता ए॒वोदृचं॑ गच्छन्ती॒यं ॅवै पूर्वो॑ऽतिरा॒त्रो॑ ऽसावुत्त॑रो॒ मनः॒ पूर्वो॒ वागुत्त॑रः प्रा॒णः पूर्वो॑ऽपा॒न उत्त॑रः प्र॒रोध॑नं॒ पूर्व॑ उ॒दय॑न॒मुत्त॑रो॒ ज्योति॑ष्टोमो वैश्वान॒रो॑ ऽतिरा॒त्रो भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द्दधते सुव॒र्गस्य॑ लो॒कस्या-नु॑ख्यात्यै चतुर्विꣳ॒॒शः प्रा॑य॒णीयो॑ भवति॒ चतु॑र्विꣳशति-रर्द्धमा॒साः - [ ]
पदपाठः (Word-by-word)
वै । स॒मु॒द्रः । तस्य॑ । ए॒तत् । पा॒रम् । यत् । अ॒ति॒रा॒त्रावित्य॑ति-रा॒त्रौ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । अना᳚र्ताः । ए॒व । उ॒दृच॒मित्यु॑त् - ऋच᳚म् । ग॒च्छ॒न्ति॒ । इ॒यम् । वै । पूर्वः॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । अ॒सौ । उत्त॑र॒ इत्युत् - त॒रः॒ । मनः॑ । पूर्वः॑ । वाक् । उत्त॑र॒ इत्युत् - त॒रः॒ । प्रा॒ण इति॑ प्र -अ॒नः । पूर्वः॑ । अ॒पा॒न इत्य॑प - अ॒नः । उत्त॑र॒ इत्युत् -त॒रः॒ । प्र॒रोध॑न॒मिति॑ प्र - रोध॑नम् । पूर्वः॑ । उ॒दय॑न॒मित्यु॑त्-अय॑नम् । उत्त॑र॒ इत्युत् - त॒रः॒ । ज्योति॑ष्टोम॒ इति॒ ज्योतिः॑-स्तो॒मः॒ । वै॒श्वा॒न॒रः । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । भ॒व॒ति॒ । ज्योतिः॑ । ए॒व । पु॒रस्ता᳚त् । द॒ध॒ते॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । च॒तु॒र्विꣳ॒॒श इति॑ चतुः - विꣳ॒॒शः । प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒नीयः॑ । भ॒व॒ति॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः ।
पदसंख्या: 50