प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.1.4 TS 7.5.1.4
सं॑ॅवथ्स॒रः प्र॒यन्त॑ ए॒व सं॑ॅवथ्स॒रे प्रति॑ तिष्ठन्ति॒ तस्य॒ त्रीणि॑ च श॒तानि॑ ष॒ष्टिश्च॑ स्तो॒त्रीया॒स्ताव॑तीः संॅवथ्स॒रस्य॒ रात्र॑य उ॒भे ए॒व सं॑ॅवथ्स॒रस्य॑ रू॒पे आ᳚प्नुवन्ति॒ ते सꣳस्थि॑त्या॒ अरि॑ष्ट्या॒ उत्त॑रै॒रहो॑भिश्चरन्ति षड॒हा भ॑वन्ति॒ षड् वा ऋ॒तवः॑ संॅवथ्स॒र ऋ॒तुष्वे॒व सं॑ॅवथ्स॒रे प्रति॑ तिष्ठन्ति॒ गौश्चाऽऽ*यु॑श्च मद्ध्य॒तः स्तोमौ॑ भवतः संॅवथ्स॒रस्यै॒व तन्मि॑थु॒नं म॑द्ध्य॒तो -[ ]
पदपाठः (Word-by-word)
सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । प्र॒यन्त॒ इति॑ प्र - यन्तः॑ । ए॒व । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । तस्य॑ । त्रीणि॑ । च॒ । श॒तानि॑ । ष॒ष्टिः । च॒ । स्तो॒त्रीयाः᳚ । ताव॑तीः । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । रात्र॑यः । उ॒भे इति॑ । ए॒व । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । रू॒पे इति॑ । आ॒प्नु॒व॒न्ति॒ । ते । सꣳस्थि॑त्या॒ इति॒ सं-स्थि॒त्यै॒ । अरि॑ष्ट्यै । उत्त॑रै॒रित्युत् - त॒रैः॒ । अहो॑भि॒रित्यहः॑-भिः॒ । च॒र॒न्ति॒ । ष॒ड॒हा इति॑ षट् - अ॒हाः । भ॒व॒न्ति॒ । षट् । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ऋ॒तुषु॑ । ए॒व । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रे । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । गौः । च॒ । आयुः॑ । च॒ । म॒द्ध्य॒तः । स्तोमौ᳚ । भ॒व॒तः॒ । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । ए॒व । तत् । मि॒थु॒नम् । म॒द्ध्य॒तः ।
पदसंख्या: 50