तत् प॒था य॑न्ति समा॒नꣳ साम॑ भवति देवलो॒को वै साम॑ देवलो॒कादे॒व नय॑न्त्य॒न्याअ॑न्या॒ ऋचो॑ भवन्ति मनुष्यलो॒को वा ऋचो॑ मनुष्यलो॒कादे॒वान्यम॑न्यं देवलो॒कम॑भ्या॒रोह॑न्तो यन्त्यभिव॒र्तो ब्र॑ह्मसा॒मं भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिवृ॑त्या अभि॒जिद्-भ॑वति सुव॒र्गस्य॑ लो॒कस्या॒भिजि॑त्यै विश्व॒जिद्-भ॑वति॒ विश्व॑स्य॒ जित्यै॑ मा॒सिमा॑सि पृ॒ष्ठान्युप॑ यन्ति मा॒सिमा᳚स्यतिग्रा॒ह्या॑ गृह्यन्ते मा॒सिमा᳚स्ये॒व वी॒र्यं॑ ( ) दधति मा॒सां प्रति॑ष्ठित्या उ॒परि॑ष्टान्मा॒सां पृ॒ष्ठान्युप॑ यन्ति॒ तस्मा॑दु॒परि॑ष्टा॒दोष॑धयः॒ फलं॑ गृह्णन्ति ॥
पदपाठः (Word-by-word)
तत् । प॒था । य॒न्ति॒ । स॒मा॒नम् । साम॑ । भ॒व॒ति॒ । दे॒व॒लो॒क इति॑ देव - लो॒कः । वै । साम॑ । दे॒व॒लो॒कादिति॑ देव - लो॒कात् । ए॒व । न । य॒न्ति॒ । अ॒न्याअ॑न्या॒ इत्य॒न्याः - अ॒न्याः॒ । ऋचः॑ । भ॒व॒न्ति॒ । म॒नु॒ष्य॒लो॒क इति॑ मनुष्य - लो॒कः । वै । ऋचः॑ । म॒नु॒ष्य॒लो॒कादिति॑ मनुष्य - लो॒कात् । ए॒व । अ॒न्यम॑न्य॒मित्य॒न्यम् - अ॒न्य॒म् । दे॒व॒लो॒कमिति॑ देव - लो॒कम् । अ॒भ्या॒रोह॑न्त॒ इत्य॑भि-आ॒रोह॑न्तः । य॒न्ति॒ । अ॒भि॒व॒र्त इत्य॑भि - व॒र्तः । ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । भ॒व॒ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अ॒भिवृ॑त्या॒ इत्य॒भि - वृ॒त्यै॒ । अ॒भि॒जिदित्य॑भि - जित् । भ॒व॒ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । वि॒श्व॒जिदिति॑ विश्व - जित् । भ॒व॒ति॒ । विश्व॑स्य । जित्यै᳚ । मा॒सिमा॒सीति॑ मा॒सि - मा॒सि॒ । पृ॒ष्ठानि॑ । उपेति॑ । य॒न्ति॒ । मा॒सिमा॒सीति॑ मा॒सि - मा॒सि॒ । अ॒ति॒ग्रा॒ह्या॑ इत्य॑ति - ग्रा॒ह्याः᳚ । गृ॒ह्य॒न्ते॒ । मा॒सिमा॒सीति॑ मा॒सि - मा॒सि॒ । ए॒व । वी॒र्य᳚म् ( ) । द॒ध॒ति॒ । मा॒साम् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒परि॑ष्टात् । मा॒साम् । पृ॒ष्ठानि॑ । उपेति॑ । य॒न्ति॒ । तस्मा᳚त् । उ॒परि॑ष्टात् । ओष॑धयः । फल᳚म् । गृ॒ह्ण॒न्ति॒ ॥