प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.11.1 TS 7.5.11.1
पृ॒थि॒व्यै स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ दि॒वे स्वाहा॑ संप्लोष्य॒ते स्वाहा॑ स॒प्लंव॑मानाय॒ स्वाहा॒ संप्लु॑ताय॒ स्वाहा॑ मेघायिष्य॒ते स्वाहा॑ मेघाय॒ते स्वाहा॑ मेघि॒ताय॒ स्वाहा॑ मे॒घाय॒ स्वाहा॑ नीहा॒राय॒ स्वाहा॑ नि॒हाका॑यै॒ स्वाहा᳚ प्रास॒चाय॒ स्वाहा᳚ प्रच॒लाका॑यै॒ स्वाहा॑ विद्योतिष्य॒ते स्वाहा॑ वि॒द्योत॑मानाय॒ स्वाहा॑ संॅवि॒द्योत॑मानाय॒ स्वाहा᳚ स्तनयिष्य॒ते स्वाहा᳚ स्त॒नय॑ते॒ स्वाहो॒ -ग्रꣳ स्त॒नय॑ते॒ स्वाहा॑ वर्.षिष्य॒ते स्वाहा॒ वर्.ष॑ते॒ स्वाहा॑ ऽभि॒वर्.ष॑ते॒ स्वाहा॑ परि॒वर्.ष॑ते॒ स्वाहा॑ सं॒ॅवर्.ष॑ते॒ - [ ]
पदपाठः (Word-by-word)
पृ॒थि॒व्यै । स्वाहा᳚ । अ॒न्तरि॑क्षाय । स्वाहा᳚ । दि॒वे । स्वाहा᳚ । स॒प्ल्ॐ॒ष्य॒त इति॑ सं - प्लो॒ष्य॒ते । स्वाहा᳚ । स॒प्लंव॑माना॒येति॑ सं - प्लव॑मानाय । स्वाहा᳚ । संप्लु॑ता॒येति॒ सं-प्लु॒ता॒य॒ । स्वाहा᳚ । मे॒घा॒यि॒ष्य॒ते । स्वाहा᳚ । मे॒घा॒य॒त इति॑ मेघ - य॒ते । स्वाहा᳚ । मे॒घि॒ताय॑ । स्वाहा᳚ । मे॒घाय॑ । स्वाहा᳚ । नी॒हा॒राय॑ । स्वाहा᳚ । नि॒हाका॑या॒ इति॑ नि-हाका॑यै । स्वाहा᳚ । प्रा॒स॒चाय॑ । स्वाहा᳚ । प्र॒च॒लाका॑या॒ इति॑ प्र - च॒लाका॑यै । स्वाहा᳚ । वि॒द्यो॒ति॒ष्य॒त इति॑ वि - द्यो॒ति॒ष्य॒ते । स्वाहा᳚ । वि॒द्योत॑माना॒येति॑ वि - द्योत॑मानाय । स्वाहा᳚ । सं॒ॅवि॒द्योत॑माना॒येति॑ सं-वि॒द्योत॑मानाय । स्वाहा᳚ । स्त॒न॒यि॒ष्य॒ते । स्वाहा᳚ । स्त॒नय॑ते । स्वाहा᳚ । उ॒ग्रम् । स्त॒नय॑ते । स्वाहा᳚ । व॒र्.॒षि॒ष्य॒ते । स्वाहा᳚ । वर्.ष॑ते । स्वाहा᳚ । अ॒भि॒वर्.ष॑त॒ इत्य॑भि - वर्.ष॑ते । स्वाहा᳚ । प॒रि॒वर्.ष॑त॒ इति॑ परि - वर्.ष॑ते । स्वाहा᳚ । सं॒ॅवर्.ष॑त॒ इति॑ सं - वर्.ष॑ते ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथाश्वमेधे नक्तंहोमाः - पृथिव्यै स्वाहेत्यादयः निगदसिद्धाः ॥ संप्लवनं वर्षार्थमुपक्रमः; त्रैकाल्येन प्रवृत्तिरुच्यते । लृट् व्यत्ययेन । मेघायिष्यते मेघान् करिष्यते । 'शब्दवैर' इति क्यङ्, व्यत्ययेन परस्मैपदम् । मेघायते मेघमात्मन इच्छते । 'नच्छन्दस्यपुत्रस्य' इतीत्वाभावः । मेधिताय सञ्जातमेघाय । इतच्प्रत्ययः 'तदस्य सञ्जातम्' इति । मेघाय वर्षहेतवे । निहाका नीहारस्य परा काष्ठा यत्र निहततरं कोष्ठं इति प्रयुञ्जते शीतेनार्ताः । तमोभिभूताय प्रासचाय नीहारेण संकुचते यत्र जन्तवः शीतेन संकुचिता भवन्ति' तमसा वा निश्चेष्टाः । सर्वत्र पृषोदरादित्वादिष्टरूपसिद्धिः । प्रचलाका हेमन्तसमाप्तिकालः यत्रेतश्चेतश्च प्रचलन्ति जन्तवः । यद्वा - प्रकर्षेण चलन्ति । विशीर्य शिष्यन्त इति विद्योतनं विरळद्योतनम् । स्तननं शब्दनम् । उग्रं उद्रूर्णं श्रवणकटुकम् । वर्षणं धारापातनम् । अभिवर्षणं उपर्युपरि वर्षणम् । परिवर्षणं सर्वतो वर्षणम् । संवर्षणं सङ्गतपटलवर्षणम् । अनुवर्षणं स्थित्वास्थित्वा वर्षणम् ॥
2 शीकायिष्यते शीकां करिष्यते वृष्ट्युत्तरकालं सिमसिमसिमाकरणं शीकाकरणम् । अन्य आह - वर्षहेतुकं शैत्यं शीकीकरणमिति । शीकायते शीकमिच्छते । शीकिताय सञ्जातशीकाय । प्रोषणं पूरणादि । पूष प्लुहस्नेहसेचनपूरणेषु । उद्ग्रहणं वर्षस्योपरमः; मेघानां वा वर्षोत्तरकालं ऊर्ध्वनयनम् । संप्लावो मेघानामप्युपरमः । विप्लवः प्रतीपकः । आतपनं रविकिरणैः सर्वतो दाहः । ऋचः पादबद्धा मन्त्राः । अपदानि यजूंषि सामानि गीतयः । अङ्गिरोभिर्दृष्टाः शाखाविशेषा अङ्गिरोविधायकाः । गाथा वैदिकाः श्लोकाः अविधायकाः । नरैः शंसनीया देवताविशेषा नाराशंसाः, तत्सम्बन्धिन्य ऋचो नाराशंस्यः । रेभः शब्दकृदग्निः । तदीया ऋचो रैभ्यः । उत्सादि लक्षणोऽञ् । गोबलीवर्दन्यायेन व्यतिरिक्तविषयः ऋक्छब्दोत्र द्रष्टव्यः॥
इति सप्तमे पञ्चमे एकादशोनुवाकः ॥