स्वाहा॑ ऽनु॒वर्.ष॑ते॒ स्वाहा॑ शीकायिष्य॒ते स्वाहा॑ शीकाय॒ते स्वाहा॑ शीकि॒ताय॒ स्वाहा᳚प्रोषिष्य॒ते स्वाहा᳚ प्रुष्ण॒ते स्वाहा॑ परिप्रुष्ण॒ते स्वाहो᳚-द्ग्रहीष्य॒ते स्वाहो᳚ द्गृह्ण॒ते स्वाहो-द्गृ॑हीताय॒ स्वाहा॑ विप्लोष्य॒ते स्वाहा॑ वि॒प्लव॑मानाय॒ स्वाहा॒ विप्लु॑ताय॒ स्वाहा॑ ऽऽतफ्स्य॒ते स्वाहा॒ ऽऽतप॑ते ॒स्वाहो॒-ग्रमा॒तप॑ते॒ स्वाह॒ -र्ग्भ्यः स्वाहा॒ यजु॑र्भ्यः॒ स्वाहा॒ साम॑भ्यः॒ स्वाहा ऽङ्गि॑रोभ्यः॒ स्वाहा॒ वेदे᳚भ्यः॒ स्वाहा॒ गाथा᳚भ्यः॒ स्वाहा॑ नाराशꣳ॒॒सीभ्यः॒ स्वाहा॒ रैभी᳚भ्यः स्वाहा॒ ( ) सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
स्वाहा᳚ । अ॒नु॒वर्.ष॑त॒ इत्य॑नु - वर्.ष॑ते । स्वाहा᳚ । शी॒का॒यि॒ष्य॒ते । स्वाहा᳚ । शी॒का॒य॒त इति॑ शीक - य॒ते । स्वाहा᳚ । शी॒कि॒ताय॑ । स्वाहा᳚ । प्रो॒षि॒ष्य॒ते । स्वाहा᳚ । प्रु॒ष्ण॒ते । स्वाहा᳚ । प॒रि॒प्रु॒ष्ण॒त इति॑ परि - प्रु॒ष्ण॒ते । स्वाहा᳚ । उ॒द्ग्र॒ही॒ष्य॒त इत्यु॑त् - ग्र॒ही॒ष्य॒ते । स्वाहा᳚ । उ॒द्गृ॒ह्ण॒त इत्यु॑त् - गृ॒ह्ण॒ते । स्वाहा᳚ । उद्गृ॑हीता॒येत्युत् - गृ॒ही॒ता॒य॒ । स्वाहा᳚ । वि॒प्लो॒ष्य॒त इति॑ वि - प्लो॒ष्य॒ते । स्वाहा᳚ । वि॒प्लव॑माना॒येति॑ वि - प्लव॑मानाय । स्वाहा᳚ । विप्लु॑ता॒येति॒ वि - प्लु॒ता॒य॒ । स्वाहा᳚ । आ॒त॒फ्स्य॒त इत्या᳚ - त॒फ्स्य॒ते । स्वाहा᳚ । आ॒तप॑त॒ इत्या᳚ - तप॑ते । स्वाहा᳚ । उ॒ग्रम् । आ॒तप॑त॒ इत्या᳚ - तप॑ते । स्वाहा᳚ । ऋ॒ग्भ्य इत्यृ॑क् - भ्यः । स्वाहा᳚ । यजु॑र्भ्य॒ इति॒ यजुः॑ - भ्यः॒ । स्वाहा᳚ । साम॑भ्य॒ इति॒ साम॑ - भ्यः॒ । स्वाहा᳚ । अङ्गि॑रोभ्य॒ इत्यङ्गि॑रः -भ्यः॒ । स्वाहा᳚ । वेदे᳚भ्यः । स्वाहा᳚ । गाथा᳚भ्यः । स्वाहा᳚ । ना॒रा॒शꣳ॒॒सीभ्यः॑ । स्वाहा᳚ । रैभी᳚भ्यः । स्वाहा॑ ( ) । सर्व॑स्मै । स्वाहा᳚ ॥