प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.15.1 TS 7.5.15.1
यो वा अ॒ग्नाव॒ग्निः प्र॑ह्रि॒यते॒ यश्च॒ सोमो॒ राजा॒ तयो॑रे॒ष आ॑ति॒थ्यं ॅयद॑ग्नीषो॒मीयोऽथै॒ष रु॒द्रो यश्ची॒यते॒ यथ् संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॒ न नि॒र्वपे॑दे॒ष ए॒व रु॒द्रोऽशा᳚न्त उपो॒त्थाय॑ प्र॒जां प॒शून् यज॑मानस्या॒भि म॑न्येत॒ यथ् संचि॑ते॒ऽग्नावे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नास्य॑ रु॒द्रोऽशा᳚न्त - [ ]
पदपाठः (Word-by-word)
यः । वै । अ॒ग्नौ । अ॒ग्निः । प्र॒ह्रि॒यत॒ इति॑ प्र - ह्रि॒यते᳚ । यः । च॒ । सोमः॑ । राजा᳚ । तयोः᳚ । ए॒षः । आ॒ति॒थ्यम् । यत् । अ॒ग्नी॒षो॒मीय॒ इत्य॑ग्नी - सो॒मीयः॑ । अथ॑ । ए॒षः । रु॒द्रः । यः । ची॒यते᳚ । यत् । सञ्चि॑त॒ इति॒ सं - चि॒ते॒ । अ॒ग्नौ । ए॒तानि॑ । ह॒वीꣳषि॑ । न । नि॒र्वपे॒दिति॑ निः - वपे᳚त् । ए॒षः । ए॒व । रु॒द्रः । अशा᳚न्तः । उ॒पो॒त्थायेत्यु॑प - उ॒त्थाय॑ । प्र॒जामिति॑ प्र - जाम् । प॒शून् । यज॑मानस्य । अ॒भीति॑ । म॒न्ये॒त॒ । यत् । सञ्चि॑त॒ इति॒ सं-चि॒ते॒ । अ॒ग्नौ । ए॒तानि॑ । ह॒वीꣳषि॑ । नि॒र्वप॒तीति॑ निः - वप॑ति । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । ए॒व । ए॒न॒म् । श॒म॒य॒ति॒ । न । अ॒स्य॒ । रु॒द्रः । अशा᳚न्तः ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथैषां ब्राह्मणं - यो वा इत्यादि ॥ योऽयमग्नावग्निं मथित्वा प्रणीयते यश्च सोमो राजा तयोरेष आतिथ्यं योऽग्नीषोमीयपशुः । अथैष इत्यादि । एतानि हवींषि 'अग्नये गायत्राय' इत्यादीनि । अशान्तः क्रुद्धः अभिमन्येत नाशयेत् ॥
2 दश हवींषीत्यादि ॥ गतम् ॥
3 ऋतुभिर्वा इत्यादि ॥ एषां हविषां निर्वापेन ऋत्वादिभिः एष चितो भवतीति । दिश इत्यादि । सुषुवाणेन सोमं सुतवता, ऐश्वर्यप्राप्तेन वा । अभिजित्या इत्यादि । अभिजेतव्याः । छान्दसः क्यप्, कृदुत्तरपदप्रकृतिस्वरत्वम् । अभिजित्यै, 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
4 एतया वा इत्यादि ॥ गतम् । मनुष्याः अयाजयन्नित्येव । दिग्वतीः दिक्शब्दवत्यः 'समिद्दिशामाशया नः' इत्याद्याः ॥
इति सप्तमे पञ्चमे पञ्चदशोनुवाकः ॥