उपो॒त्थाय॑ प्र॒जां प॒शून॒भि म॑न्यते॒ दश॑ ह॒वीꣳषि॑ भवन्ति॒ नव॒ वै पुरु॑षे प्रा॒णा नाभि॑र्दश॒मी प्रा॒णाने॒व यज॑माने दधा॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठत्यृ॒तुभि॒र्वा ए॒ष छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चे॑त॒व्य॑ इत्या॑हु॒र्यदे॒तानि॑ ह॒वीꣳषि॑ नि॒र्वप॑त्यृ॒तुभि॑रे॒वैनं॒ छन्दो॑भिः॒ स्तोमैः᳚ पृ॒ष्ठैश्चि॑नुते॒ दिशः॑ सुषुवा॒णेना॑ - [ ]
पदपाठः (Word-by-word)
उ॒पो॒त्थायेत्यु॑प - उ॒त्थाय॑ । प्र॒जामिति॑ प्र-जाम् । प॒शून् । अ॒भीति॑ । म॒न्य॒ते॒ । दश॑ । ह॒वीꣳषि॑ । भ॒व॒न्ति॒ । नव॑ । वै । पुरु॑षे । प्रा॒णा इति॑ प्र - अ॒नाः । नाभिः॑ । द॒श॒मी । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । यज॑माने । द॒धा॒ति॒ । अथो॒ इति॑ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजीति॑ वि - राजि॑ । ए॒व । अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । प्रतीति॑ । ति॒ष्ठ॒ति॒ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । वै । ए॒षः । छन्दो॑भि॒रिति॒ छन्दः॑- भिः॒ । स्तोमैः᳚ । पृ॒ष्ठैः । चे॒त॒व्यः॑ । इति॑ । आ॒हुः॒ । यत् । ए॒तानि॑ । ह॒वीꣳषि॑ । नि॒र्वप॒तीति॑ निः - वप॑ति । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒न॒म् । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । स्तोमैः᳚ । पृ॒ष्ठैः । चि॒नु॒ते॒ । दिशः॑ । सु॒षु॒वा॒णेन॑ ।