यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते॒ द्यौर्म॑हि॒मा नक्ष॑त्राणि रू॒पमा॑दि॒त्यस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
यः । प्रा॒ण॒त इति॑ प्र - अ॒न॒तः । नि॒मि॒ष॒त इति॑ नि - मि॒ष॒तः । म॒हि॒त्वेति॑ महि - त्वा । एकः॑ । इत् । राजा᳚ । जग॑तः । ब॒भूव॑ ॥ यः । ईशे᳚ । अ॒स्य । द्वि॒पद॒ इति॑ द्वि - पदः॑ । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म-गृ॒ही॒तः॒ । अ॒सि॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ । जुष्ट᳚म् । गृ॒ह्णा॒मि॒ । तस्य॑ । ते॒ । द्यौः । म॒हि॒मा । नक्ष॑त्राणि । रू॒पम् । आ॒दि॒त्यः । ते॒ । तेजः॑ । तस्मै᳚ । त्वा॒ । म॒हि॒म्ने । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । स्वाहा᳚ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ वर्णेन महिमानं गृह्णाति - यः प्राणत इति त्रिष्टुभा उपरिष्टादुपयामया ॥ इयं च व्याख्याता 'ऊर्ध्वा अस्य समिधः' इत्यत्र । यः प्राणतो निमिषतश्च जगतो निजमाहात्म्येन य एक एव राजा बभूव, यश्चेष्टे अस्य द्विपदः चतुष्पदः कस्मै अज्ञातव्रतस्वभावाय देवाय हविषा परिचरेम । उपयामः पृथिवी । तथैव गृहीतोसि । प्रजापतये जुष्टं प्रियं च गृह्णामि । तस्य ते द्यौर्महिमा द्यौरिव महांस्त्वमसि । नक्षत्राणि तव रूपं तव बिभ्रति । एतावन्ति वा तव रूपाणि । आदित्यस्ते तेजः आदित्योपि त्वया तेजस्वी भवति । एवं गृहीत्वा जुहोति । तस्मै तादृशाय महिमवते प्रजापतये त्वा जुहोमीति स्वाहुतं करोमीति ॥
इति सप्तमे पञ्चमे षोडशोनुवाकः ॥