प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.17.1 TS 7.5.17.1
य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ ॅयस्य॑ दे॒वाः । यस्य॑ छा॒याऽमृतं॒ ॅयस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्टं॑ गृह्णामि॒ तस्य॑ ते पृथि॒वी म॑हि॒मौष॑धयो॒ वन॒स्पत॑यो रू॒पम॒ग्निस्ते॒ तेज॒स्तस्मै᳚ त्वा महि॒म्ने प्र॒जाप॑तये॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
यः । आ॒त्म॒दा इत्या᳚त्म - दाः । ब॒ल॒दा इति॑ बल - दाः । यस्य॑ । विश्वे᳚ । उ॒पास॑त॒ इत्यु॑प - आस॑ते । प्र॒शिष॒मिति॑ प्र-शिष᳚म् । यस्य॑ । दे॒वाः ॥ यस्य॑ । छा॒या । अ॒मृत᳚म् । यस्य॑ । मृ॒त्युः । कस्मै᳚ । दे॒वाय॑ । ह॒विषा᳚ । वि॒धे॒म॒ ॥ उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । अ॒सि॒ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । त्वा॒ । जुष्ट᳚म् । गृ॒ह्णा॒मि॒ । तस्य॑ । ते॒ । पृ॒थि॒वी । म॒हि॒मा । ओष॑धयः । वन॒स्पत॑यः । रू॒पम् । अ॒ग्निः । ते॒ । तेजः॑ । तस्मै᳚ । त्वा॒ । म॒हि॒म्ने । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । स्वाहा᳚ ॥
पदसंख्या: 39
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 द्वितीयं महिमानं गृह्णाति - आत्मदा इति त्रिष्टुभा उपरिष्टादुपयामया ॥ इयमपि तत्रैव व्याख्याता । य आत्मदाः सर्वस्मै बलदाश्च यस्य प्रशिषं प्रकष्टामाशिषं विश्वेऽप्युपासते देवा अपि यस्य प्रशिषमुपासते अमृतं मृत्युश्च यस्य छायेव विधेया । कस्मा इत्यादि । गतम् । तस्य ते पृथिवी महिमा पृथिवीव महांस्त्वमोषधयो वनस्पतयः तव रूपम् । अग्निस्तव तेज इति गृहीत्वा जुहोति । तस्मा इत्यादि । गतम् ॥
इति सप्तमे पञ्चमे सप्तदशोनुवाकः ॥