प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.23.1 TS 7.5.23.1
अ॒ग्नये॒ सम॑नमत् पृथि॒व्यै सम॑नम॒द्यथा॒ऽग्निः पृ॑थि॒व्या स॒मन॑मदे॒वं मह्यं॑ भ॒द्राः संन॑तयः॒ सं न॑मन्तु वा॒यवे॒ सम॑नमद॒न्तरि॑क्षाय॒ सम॑नम॒द्यथा॑ वा॒युर॒न्तरि॑क्षेण॒ सूर्या॑य॒ सम॑नमद्दि॒वे सम॑नम॒द्यथा॒ सूर्यो॑ दि॒वा च॒न्द्रम॑से॒ सम॑नम॒न्नक्ष॑त्रेभ्यः॒ सम॑नम॒द्यथा॑ च॒न्द्रमा॒ नक्ष॑त्रै॒र्वरु॑णाय॒ सम॑नमद॒द्भ्यः सम॑नम॒द्यथा॒ - [ ]
पदपाठः (Word-by-word)
अ॒ग्नये᳚ । समिति॑ । अ॒न॒म॒त् । पृ॒थि॒व्यै । समिति॑ । अ॒न॒म॒त् । यथा᳚ । अ॒ग्निः । पृ॒थि॒व्या । स॒मन॑म॒दिति॑ सं - अन॑मत् । ए॒वम् । मह्य᳚म् । भ॒द्राः । संन॑तय॒ इति॒ सं - न॒त॒यः॒ । समिति॑ । न॒म॒न्तु॒ । वा॒यवे᳚ । समिति॑ । अ॒न॒म॒त् । अ॒न्तरि॑क्षाय । समिति॑ । अ॒न॒म॒त् । यथा᳚ । वा॒युः । अ॒न्तरि॑क्षेण । सूर्या॑य । समिति॑ । अ॒न॒म॒त् । दि॒वे । समिति॑ । अ॒न॒म॒त् । यथा᳚ । सूर्यः॑ । दि॒वा । च॒न्द्रम॑से । समिति॑ । अ॒न॒म॒त् । नक्ष॑त्रेभ्यः । समिति॑ । अ॒न॒म॒त् । यथा᳚ । च॒न्द्रमाः᳚ । नक्ष॑त्रैः । वरु॑णाय । समिति॑ । अ॒न॒म॒त् । अ॒द्भ्य इत्य॑त् - भ्यः । समिति॑ । अ॒न॒म॒त्॒ । यथा᳚ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

(SB) 1अथ सन्नतिहोमा उच्यन्ते । तथा च ब्राह्मणम् - 'अग्नये समनमत्पृथिव्यै समनमदिति सन्नतिहोमान् जुहोति' इति । अग्नय डति ॥ सर्वोऽपि यजमानः अग्नये समनमत् सन्नतिं परिचर्यामकरोत् । तथा पृथिव्यै समनमत् परिचर्यामकरोत् । स च पृथिव्या सहितोऽग्निः यथा समनमत् येन प्रकारेण तस्मै यजमानाय सन्नतिं उपकारमकरोत् एवं अनेन प्रकारेण मह्यं मदर्थं भद्राः सन्नतयः कल्याणा उपकाराः देवकृताः संनमन्तु प्राप्नुवन्तु । एवमुत्तरेष्वपि मन्त्रेषु योजनीयम् । 'समनमदेवं मह्यं' इत्यादिकं सर्वत्रानुषज्यते । तदर्थमेवान्ते पुनः पाठः । एतैर्दशभिर्मन्त्रैः अन्नहोमेषु सन्नतिहोमाः कर्तव्याः ॥

इति माधवीये सप्तमे पञ्चमे त्रयोविंशोनुवाकः ॥