वरु॑णो॒ऽद्भिः साम्ने॒ सम॑नमदृ॒चे सम॑नम॒द्यथा॒ साम॒र्चा ब्रह्म॑णे॒ सम॑नमत् क्ष॒त्राय॒ सम॑नम॒द्यथा॒ ब्रह्म॑ क्ष॒त्रेण॒ राज्ञे॒ सम॑नमद्-वि॒शे सम॑नम॒द्यथा॒ राजा॑ वि॒शा रथा॑यः॒ सम॑नम॒दश्वे᳚भ्यः॒ सम॑नम॒द्यथा॒ रथोऽश्वैः᳚ प्र॒जाप॑तये॒ सम॑नमद्-भू॒तेभ्यः॒ सम॑नम॒द्यथा᳚ प्र॒जाप॑तिर्भू॒तैः स॒मन॑मदे॒वं मह्यं॑ ( ) भ॒द्राः संन॑तयः॒ सं न॑मन्तु ॥
पदपाठः (Word-by-word)
वरु॑णः । अ॒द्भिरित्य॑त् - भिः । साम्ने᳚ । समिति॑ । अ॒न॒म॒त् । ऋ॒चे । समिति॑ । अ॒न॒म॒त् । यथा᳚ । साम॑ । ऋ॒चा । ब्रह्म॑णे । समिति॑ । अ॒न॒म॒त् । क्ष॒त्राय॑ । समिति॑ । अ॒न॒म॒त् । यथा᳚ । ब्रह्म॑ । क्ष॒त्रेण॑ । राज्ञे᳚ । समिति॑ । अ॒न॒म॒त् । वि॒शे । समिति॑ । अ॒न॒म॒त् । यथा᳚ । राजा᳚ । वि॒शा । रथा॑य । समिति॑ । अ॒न॒म॒त् । अश्वे᳚भ्यः । समिति॑ । अ॒न॒म॒त् । यथा᳚ । रथः॑ । अश्वैः᳚ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । समिति॑ । अ॒न॒म॒त् । भू॒तेभ्यः॑ । समिति॑ । अ॒न॒म॒त् । यथा᳚ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । भू॒तैः । स॒मन॑म॒दिति॑ सं-अन॑मत् । ए॒वम् । मह्य᳚म् ( ) । भ॒द्राः । संन॑तय॒ इति॒ सं - न॒त॒यः॒ । समिति॑ । न॒म॒न्तु॒ ॥