ये ते॒ पन्था॑नः सवितः पू॒र्व्यासो॑ऽरे॒णवो॒ वित॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च देव ब्रूहि ॥नमो॒ऽग्नये॑ पृथिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमो॑ वा॒यवे᳚ऽन्तरिक्ष॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि॒ नमः॒ सूर्या॑य दिवि॒क्षिते॑ लोक॒स्पृते॑ लो॒कम॒स्मै यज॑मानाय देहि ॥
पदपाठः (Word-by-word)
ये । त॒ । पन्था॑नः । स॒वि॒तः॒ । पू॒र्व्यासः॑ । अ॒रे॒णवः॑ । वित॑ता॒ इति॒ वि - त॒ताः॒ । अ॒न्तरि॑क्षे ॥ तेभिः॑ । नः॒ । अ॒द्य । प॒थिभि॒रिति॑ प॒थि - भिः॒ । सु॒गेभि॒रिति॑ सु - गेभिः॑ । रक्ष॑ । च॒ । नः॒ । अधीति॑ । च॒ । दे॒व॒ । ब्रू॒हि॒ ॥ नमः॑ । अ॒ग्नये᳚ । पृ॒थि॒वि॒क्षित॒ इति॑ पृथिवि-क्षिते᳚ । लो॒क॒स्पृत॒ इति॑ लोक - स्पृते᳚ । लो॒कम् । अ॒स्मै । यज॑मानाय । दे॒हि॒ । नमः॑ । वा॒यवे᳚ । अ॒न्त॒रि॒क्ष॒क्षित॒ इत्य॑न्तरिक्ष - क्षिते᳚ । लो॒क॒स्पृत॒ इति॑ लोक - स्पृते᳚ । लो॒कम् । अ॒स्मै । यज॑मानाय । दे॒हि॒ । नमः॑ । सूर्या॑य । दि॒वि॒क्षित॒ इति॑ दिवि - क्षिते᳚ । लो॒क॒स्पृत॒ इति॑ लोक - स्पृते᳚ । लो॒कम् । अ॒स्मै । यज॑मानाय । दे॒हि॒ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
(SB) 1ये इत्यादि ॥ हे सवितर्देव ते तव सम्बन्धिनः पूर्व्यासः पूर्वसिद्धाः अन्तरिक्षे वितताः विस्तृताः अरेणवः धूलिरहिताः ये मार्गाः सन्ति सुगेभिः सुष्ठु गन्तुं शक्यैः तेभिः तैर्मार्गैरागत्य अद्य अस्मिन्कर्मणि नः अस्मान् रक्ष । तथा नः अस्मान् अधिब्रूहि च अधिकोऽयं यजमान इति देवानामग्रे कथय च ॥
2 नम इति ॥ पृथिविक्षिते भूनिवासिने लोकस्पृते लोकस्य प्रीणयित्रे अग्नये नमः अस्तु । अस्मै यजमानाय लोकं उत्तमस्थानं देहि । एवमुत्तरयोरपि योज्यम् ॥
इति माधवीये सप्तमे पञ्चमे चतुर्विंशोनुवाकः ॥