प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.25.1 TS 7.5.25.1
यो वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ शिरो॒ वेद॑ शीर्.ष॒ण्वान् मेद्ध्यो॑ भवत्यु॒षा वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ शिरः॒ सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्रं॒ दिशः॒ पादा॑ अवान्तरदि॒शाः पर्.श॑वोऽहोरा॒त्रे नि॑मे॒षो᳚ऽर्द्धमा॒साः पर्वा॑णि॒ मासाः᳚ स॒धांना᳚न्यृ॒तवोऽङ्गा॑नि संॅवथ्स॒र आ॒त्मा र॒श्मयः॒ केशा॒ नक्ष॑त्राणि रू॒पं तार॑का अ॒स्थानि॒ नभो॑ माꣳ॒॒सान्योष॑धयो॒ लोमा॑नि॒ वन॒स्पत॑यो॒ वाला॑ अ॒ग्निर्मुखं॑ ॅवैश्वान॒रो व्यात्तꣳ॑ - [ ]
पदपाठः (Word-by-word)
यः । वै । अश्व॑स्य । मेद्ध्य॑स्य । शिरः॑ । वेद॑ । शी॒र्.॒ष॒ण्वानिति॑ शीर्.षण्-वान् । मेद्ध्यः॑ । भ॒व॒ति॒ । उ॒षाः । वै । अश्व॑स्य । मेद्ध्य॑स्य । शिरः॑ । सूर्यः॑ । चक्षुः॑ । वातः॑ । प्रा॒ण इति॑ प्र - अ॒नः । च॒न्द्रमाः᳚ । श्रोत्र᳚म् । दिशः॑ । पादाः᳚ । अ॒वा॒न्त॒र॒दि॒शा इत्य॑वान्तर - दि॒शाः । पर्.श॑वः । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । नि॒मे॒ष इति॑ नि - मे॒षः । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । पर्वा॑णि । मासाः᳚ । स॒धांना॒नीति॑ सं - धाना॑नि । ऋ॒तवः॑ । अङ्गा॑नि । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । आ॒त्मा । र॒श्मयः॑ । केशाः᳚ । नक्ष॑त्राणि । रू॒पम् । तार॑काः । अ॒स्थानि॑ । नभः॑ । माꣳ॒॒सानि॑ । ओष॑धयः । लोमा॑नि । वन॒स्पत॑यः । वालाः᳚ । अ॒ग्निः । मुख᳚म् । वै॒श्वा॒न॒रः । व्यात्त॒मिति॑ वि - आत्त᳚म् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)

(SB) 1अथान्तिमे अनुवाके सर्वजगदात्मकत्वेनाश्वः स्तयूते । अथवा विराड्रूपेण अश्वोपासनप्रतिपादकोऽयमनुवाकः । प्रकरणादुत्कृष्योपनिषदादौ आमनन्ति । य इति ॥ यः पुमान् मेध्यस्य यागयोग्यस्य अश्वस्य शिरो वेद शिरःप्रभृतीनवयवात् विराडवयवंभूतोषःकालादिरूपेणोपास्ते सोऽयं शीर्षण्वान् उषःकालादिरूपैः शिरःप्रभृतिभिः विराडवयवैर्युक्तो मेध्यः यागफलयोग्यो भवति । क्रत्वनुष्ठानस्य चोपासनस्य च समानं फलम् । तथा च पञ्चमकाण्डे समाम्नातं 'सर्वं पाप्मानं तरति तरति ब्रह्महत्यां योश्वमेधेन यजते य उचैनमेवं वेद' इति । तत्र कस्मिन्नश्वावयवे को विराडवयवो ध्यातव्य इति तत्सर्वमुच्यते । मेध्यस्याश्वस्य यच्छिरः तत् उषाः उषःकालरूपम् । यदश्वस्य चक्षुः तत्सूर्यः । यः तदीयः प्राणः सोऽयं बाह्यो वायुः । यत्तदीयं श्रोत्रं सोयं चन्द्रमाः । ये तदीयाः पादाः ताः प्राच्यादिदिशः । ये पर्शवः पार्श्वास्थिविशेषाः ता इमा आग्नेय्याद्यवान्तरदिशाः । यस्तदीयो निमेष उन्मेषसहितः ते उभे अहोरात्रे । यानि तदीयहस्तपादगतपर्वाणि ते शुक्लकृष्णपक्षरूपा अर्धमासाः । यानि च पर्वणां सन्धानानि ते चैत्राद्या मासाः । यानि चानुक्तविशेषाणि खुराद्यङ्गानि ते वसन्ताद्यृतवः । यः आत्मा मध्यदेहः स संवत्सरकालः । ये तदीयाः केशाः ते सूर्यरश्मयः । यदश्वस्य भास्वरं रूपं तानि कृत्तिकादिनक्षत्राणि । यान्युक्तान्यस्थीनि तानि बृहस्पतिशुक्रध्रुवाद्याः प्रौढतारकाः । यानि तत्रतत्र स्थितानि मांसखण्डानि तदेतन्नभः । यानि क्षुद्रलोमानि ता ओषधयः । ये वालाः पुच्छगता दीर्घकेशाः ते वनस्पतयः । यदेतन्मुखं सम्पद्यते अयं लोकप्रसिद्धोऽग्निः । यत् व्यात्तं मुखविदारणं सोयं वैश्वानरनामको देवताविशेषः । यदुदरं सोयं समुद्रः । यः पायुः तदन्तरिक्षम् । यदाण्डौ ते द्यावापृथिव्यौ । यत् शेपः सोयमभिषवार्थो ग्रावा । यद्रेतः स सोमरसः । यत् जञ्जभ्यते गात्राणि विनामयति सेयं विद्युत् । यत् विधूनुते सशब्दं शरीरं कम्पयति तदेतद्गर्जनम् । यदेतन्मेहनं सेयं वृष्टिः । अस्य हेषाशब्दरूपा या वाक् सेयं वेदरूपा वागेव । जायमानम्य क्रतौ प्रयुज्यमानस्याश्वस्य यः संज्ञपनात् पुरस्तान्महिमाख्यो राजतग्रहः तदिदमहरेव । एनं पश्चात् एतस्याश्वस्य संज्ञपनादूर्ध्वं यो महिमाख्यः सौवर्णग्रहः सेयं रात्रिः । एतौ एवोभौ महिमानौ ग्रहौ अश्वमभितः सम्बभूवतुः अश्वस्य संज्ञपनात् पूर्वं पश्चाच्च व्यवस्थितौ । हयार्ववाज्यश्वाः अवान्तरजातिविशेषाः तत्तद्रूपेण देवादीन् वहन्ति । एवंविधस्य विराड्रूपस्याश्वस्य समुद्र एव योनिः कारणम् । सम्यगुद्रवत्युत्पद्यते जगदस्मादिति समुद्रः परमात्मा; न ह्यन्यस्मादयं विराडुत्पत्तुमर्हति । स एवास्य बन्धुः स्तम्भः स्थितिहेतुरित्यर्थः । एवमुपासिता पापक्षयद्वारा विराड्रूपं प्राप्नोति, 'तं यथायथोपाप्तते तथैव भवति' इति श्रुत्यन्तरात् । विराट्प्राप्तिश्च क्रममुक्तिहेतुः तत्र ज्ञानोत्पत्तौ सत्यां तेन विराजा सह मुच्यमानत्वात् । तथा च स्मृतिः -

ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।

परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥

इति । एतच्च भगवान् व्यासः - 'कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्' इत्यस्मिन्नधिकरणे महता प्रबन्धेन प्रतिपादयामास इत्यशेषमतिमङ्गलम् ॥
इति माधवीये सप्तमे पञ्चमे पञ्चविंशोनुवाकः ॥

समाप्तं च सप्तमं काण्डम् ॥

……………………………………………………………………………………………………………