प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.25.2 TS 7.5.25.2
समु॒द्र उ॒दर॑म॒न्तरि॑क्षं पा॒यु-र्द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेपः॒ सोमो॒ रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते तथ् स्त॑नयति॒ यन्मेह॑ति॒ तद्व॑र्.षति॒ वागे॒वास्य॒ वागह॒र्वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता᳚ज्जायते॒ रात्रि॑रेनं महि॒मा प॒श्चादनु॑ जायत ए॒तौ वै म॑हि॒माना॒- वश्व॑म॒भितः॒ सं ब॑भूवतु॒र्॒.हयो॑ दे॒वान॑वह॒ () दर्वाऽसु॑रान् वा॒जी ग॑न्ध॒र्वानश्वो॑मनु॒ष्या᳚न्थ् समु॒द्रो वा अश्व॑स्य॒ योनिः॑ समु॒द्रो बन्धुः॑ ॥
पदपाठः (Word-by-word)
स॒मु॒द्रः । उ॒दर᳚म् । अ॒न्तरि॑क्षम् । पा॒युः । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । आ॒ण्डौ । ग्रावा᳚ । शेपः॑ । सोमः॑ । रेतः॑ । यत् । ज॒ञ्ज॒भ्यते᳚ । तत् । वीति॑ । द्यो॒त॒ते॒ । यत् । वि॒धू॒नु॒त इति॑ वि-धू॒नु॒ते । तत् । स्त॒न॒य॒ति॒ । यत् । मेह॑ति । तत् । व॒र्.॒ष॒ति॒ । वाक् । ए॒व । अ॒स्य॒ । वाक् । अहः॑ । वै । अश्व॑स्य । जाय॑मानस्य । म॒हि॒मा । पु॒रस्ता᳚त् । जा॒य॒ते॒ । रात्रिः॑ । ए॒न॒म् । म॒हि॒मा । प॒श्चात् । अन्विति॑ । जा॒य॒ते॒ । ए॒तौ । वै । म॒हि॒मानौ᳚ । अश्व᳚म् । अ॒भितः॑ । समिति॑ । ब॒भू॒व॒तुः॒ । हयः॑ । दे॒वान् । अ॒व॒ह॒त् ( ) । अर्वा᳚ । असु॑रान् । वा॒जी । ग॒न्ध॒र्वान् । अश्वः॑ । म॒नु॒ष्यान्॑ । स॒मु॒द्रः । वै । अश्व॑स्य । योनिः॑ । स॒मु॒द्रः । बन्धुः॑ ॥
पदसंख्या: 62