प्रा॒णम॑स्मि॒न्थ्स द॑धाति॒ यत् पौ᳚र्णमा॒स्या मासा᳚न्थ् स॒पांद्याह॑रुथ् सृ॒जन्ति॑ संॅवथ्स॒रायै॒व तत् प्रा॒णं द॑धति॒ तदनु॑ स॒त्रिणः॒ प्राण॑न्ति॒ यदह॒र्नोथ्-सृ॒जेयु॒र्यथा॒ दृति॒रुप॑नद्धो वि॒पत॑त्ये॒वꣳ सं॑ॅवथ्स॒रो वि प॑ते॒दार्ति॒-मार्च्छे॑यु॒र्यत् पौ᳚र्णमा॒स्या मासा᳚न्थ्-स॒पांद्याह॑रुथ् सृ॒जन्ति॑ संॅवथ्स॒रायै॒व तदु॑दा॒नं द॑धति॒ तदनु॑ स॒त्रिण॒ उ - [ ]
पदपाठः (Word-by-word)
प्रा॒णमिति॑ प्र - अ॒नम् । अ॒स्मि॒न्न् । सः । द॒धा॒ति॒ । यत् । पौ॒र्ण॒मा॒स्येति॑ पौर्ण - मा॒स्या । मासान्॑ । स॒पांद्येति॑ सं - पाद्य॑ । अहः॑ । उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । सं॒ॅव॒थ्स॒रायेति॑ सं-व॒थ्स॒राय॑ । ए॒व । तत् । प्रा॒णमिति॑ प्र - अ॒नम् । द॒ध॒ति॒ । तत् । अन्विति॑ । स॒त्रिणः॑ । प्रेति॑ । अ॒न॒न्ति॒ । यत् । अहः॑ । न । उ॒थ्सृ॒जेयु॒रित्यु॑त्-सृ॒जेयुः॑ । यथा᳚ । दृतिः॑ । उप॑नद्ध॒ इत्युप॑ - न॒द्धः॒ । वि॒पत॒तीति॑ वि - पत॑ति । ए॒वम् । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वीति॑ । प॒ते॒त् । आर्ति᳚म् । एति॑ । ऋ॒च्छे॒युः॒ । यत् । पौ॒र्ण॒मा॒स्येति॑ पौर्ण - मा॒स्या । मासान्॑ । स॒पांद्येति॑ सं - पाद्य॑ । अहः॑ । उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । सं॒ॅव॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । ए॒व । तत् । उ॒दा॒नमित्यु॑त् - अ॒नम् । द॒ध॒ति॒ । तत् । अन्विति॑ । स॒त्रिणः॑ । उदिति॑ ।