द॑नन्ति॒ नाऽऽ*र्ति॒मार्च्छ॑न्ति पू॒र्णमा॑से॒ वै दे॒वानाꣳ॑ सु॒तो यत् पौ᳚र्णमा॒स्या मासा᳚न्थ्-स॒पांद्याह॑रुथ् सृ॒जन्ति॑ दे॒वाना॑मे॒व तद्-य॒ज्ञेन॑ य॒ज्ञ्ं प्र॒त्यव॑रोहन्ति॒ वि वा ए॒तद्-य॒ज्ञ्ं छि॑न्दन्ति॒ यथ् ष॑ड॒हस॑तंतꣳ॒॒ संत॒मथाह॑रुथ् सृ॒जन्ति॑ प्राजाप॒त्यं प॒शुमा ल॑भन्ते प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒व य॒ज्ञ्ꣳ सं त॑न्वन्ति॒ यन्ति॒ वा ए॒ते सव॑ना॒द्येऽह॑ -[ ]
पदपाठः (Word-by-word)
अ॒न॒न्ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒न्ति॒ । पू॒र्णमा॑स॒ इति॑ पू॒र्ण - मा॒से॒ । वै । दे॒वाना᳚म् । सु॒तः । यत् । पौ॒र्ण॒मा॒स्येति॑ पौर्ण - मा॒स्या । मासान्॑ । स॒पांद्येति॑ सं - पाद्य॑ । अहः॑ । उ॒थ्सृ॒जन्तीत्य॑त् - सृ॒जन्ति॑ । दे॒वाना᳚म् । ए॒व । तत् । य॒ज्ञेन॑ । य॒ज्ञ्म् । प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति । वीति॑ । वै । ए॒तत् । य॒ज्ञ्म् । छि॒न्द॒न्ति॒ । यत् । ष॒ड॒हस॑न्तत॒मिति॑ षड॒ह - स॒न्त॒त॒म् । सन्त᳚म् । अथ॑ । अहः॑ । उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । प्रा॒जा॒प॒त्यमिति॑ प्राजा-प॒त्यम् । प॒शुम् । एति॑ । ल॒भ॒न्ते॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । सर्वाः᳚ । दे॒वताः᳚ । दे॒वता॑भिः । ए॒व । य॒ज्ञ्म् । समिति॑ । त॒न्व॒न्ति॒ । यन्ति॑ । वै । ए॒ते । सव॑नात् । ये । अहः॑ ।