-रुथ् सृ॒जन्ति॑ तु॒रीयं॒ खलु॒ वा ए॒तथ् सव॑नं॒ ॅयथ् सा᳚नां॒य्यं ॅयथ् सा᳚नां॒य्यं भव॑ति॒ तेनै॒व सव॑ना॒न्न य॑न्ति समुप॒हूय॑ भक्षयन्त्ये॒तथ्- सो॑मपीथा॒ ह्ये॑तर्.हि॑ यथायत॒नं ॅवा ए॒तेषाꣳ॑ सवन॒भाजो॑ दे॒वता॑ गच्छन्ति॒ येऽह॑रुथ् सृ॒जन्त्य॑नुसव॒नं पु॑रो॒डाशा॒न् निर्व॑पन्ति यथायत॒नादे॒व स॑वन॒भाजो॑ दे॒वता॒ अव॑ रुन्धते॒ ऽष्टाक॑पालान् प्रातस्सव॒न एका॑दशकपाला॒न् माद्ध्य॑न्दिने॒ सव॑ने॒ द्वाद॑शकपालाꣳ-स्तृतीयसव॒ने छन्दाꣳ॑स्ये॒वाऽऽ*प्त्वा ( ) -ऽव॑ रुन्धते वैश्वदे॒वं च॒रुं तृ॑तीयसव॒ने निर्व॑पन्ति वैश्वदे॒वं ॅवै तृ॑तीयसव॒नं तेनै॒व तृ॑तीयसव॒नान्न य॑न्ति ॥
पदपाठः (Word-by-word)
उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । तु॒रीय᳚म् । खलु॑ । वै । ए॒तत् । सव॑नम् । यत् । सा॒न्ना॒य्यमिति॑ सां-ना॒य्यम् । यत् । सा॒न्ना॒य्यमिति॑ सां-ना॒य्यम् । भव॑ति । तेन॑ । ए॒व । सव॑नात् । न । य॒न्ति॒ । स॒मु॒प॒हूयेति॑ सं - उ॒प॒हूय॑ । भ॒क्ष॒य॒न्ति॒ । ए॒तथ्सो॑मपीथा॒ इत्ये॒तत् - सो॒म॒पी॒थाः॒ । हि । ए॒तर्.हि॑ । य॒था॒य॒त॒नमिति॑ यथा - अ॒य॒त॒नम् । वै । ए॒तेषा᳚म् । स॒व॒न॒भाज॒ इति॑ सवन - भाजः॑ । दे॒वताः᳚ । ग॒च्छ॒न्ति॒ । ये । अहः॑ । उ॒थ्सृ॒जन्तीत्यु॑त् - सृ॒जन्ति॑ । अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् । पु॒रो॒डाशान्॑ । निरिति॑ । व॒प॒न्ति॒ । य॒था॒य॒त॒नादिति॑ यथा - आ॒य॒त॒नात् । ए॒व । स॒व॒न॒भाज॒ इति॑ सवन - भाजः॑ । दे॒वताः᳚ । अवेति॑ । रु॒न्ध॒ते॒ । अ॒ष्टाक॑पाला॒नित्य॒ष्टा - क॒पा॒ला॒न् । प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । एका॑दशकपाला॒नित्येका॑दश - क॒पा॒ला॒न्न् । माद्ध्य॑न्दिने । सव॑ने । द्वाद॑शकपाला॒निति॒ द्वाद॑श - क॒पा॒ला॒न्न् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । छन्दाꣳ॑सि । ए॒व । आ॒प्त्वा ( ) । अवेति॑ । रु॒न्ध॒ते॒ । वै॒श्व॒दे॒वमिति॑ वैश्व-दे॒वम् । च॒रुम् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय-स॒व॒ने । निरिति॑ । व॒प॒न्ति॒ । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । वै । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । तेन॑ । ए॒व । तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय - स॒व॒नात् । न । य॒न्ति॒ ॥