स्तुव॒न्त्यनु॑श्लोकेन प॒श्चाद्-य॒ज्ञ्स्यै॒वान्तं॑ ग॒त्वा श्लो॑क॒भाजो॑ भवन्ति न॒वभि॑-रद्ध्व॒र्युरुद्-गा॑यति॒ नव॒ वै पुरु॑षे प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधाति॒ सर्वा॑ ऐ॒न्द्रियो॑ भवन्ति प्रा॒णेष्वे॒वेन्द्रि॒यं द॑ध॒-त्यप्र॑तिहृताभि॒रुद्-गा॑यति॒ तस्मा॒त् पुरु॑षः॒ सर्वा᳚ण्य॒न्यानि॑ शी॒र्.ष्णोऽङ्गा॑नि॒ प्रत्य॑चति॒ शिर॑ ए॒व न प॑ञ्चद॒शꣳर॑थन्त॒रं भ॑वतीन्द्रि॒यमे॒वाव॑ रुन्धते सप्तद॒शं-[ ]
पदपाठः (Word-by-word)
स्तु॒व॒न्ति॒ । अनु॑श्लोके॒नेत्यनु॑ - श्लो॒के॒न॒ । प॒श्चात् । य॒ज्ञ्स्य॑ । ए॒व । अन्त᳚म् । ग॒त्वा । श्लो॒क॒भाज॒ इति॑ श्लोक - भाजः॑ । भ॒व॒न्ति॒ । न॒वभि॒रिति॑ न॒व - भिः॒ । अ॒द्ध्व॒र्युः । उदिति॑ । गा॒य॒ति॒ । नव॑ । वै । पुरु॑षे । प्रा॒णा इति॑ प्र - अ॒नाः । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । यज॑मानेषु । द॒धा॒ति॒ । सर्वाः᳚ । ऐ॒न्द्रियः॑ । भ॒व॒न्ति॒ । प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । ए॒व । इ॒न्द्रि॒यम् । द॒ध॒ति॒ । अप्र॑तिहृताभि॒रित्यप्र॑ति - हृ॒ता॒भिः॒ । उदिति॑ । गा॒य॒ति॒ । तस्मा᳚त् । पुरु॑षः । सर्वा॑णि । अ॒न्यानि॑ । शी॒र्ष्णः । अङ्गा॑नि । प्रतीति॑ । अ॒च॒ति॒ । शिरः॑ । ए॒व । न । प॒ञ्च॒द॒शमिति॑ पञ्च - द॒शम् । र॒थ॒न्त॒रमिति॑ रथं-त॒रम् । भ॒व॒ति॒ । इ॒न्द्रि॒यम् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । स॒प्त॒द॒शमिति॑ सप्त - द॒शम् ।