बृ॒ह-द॒न्नाद्य॒स्यावरुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकविꣳ॒॒शं भ॒द्रं द्वि॒पदा॑सु॒ प्रति॑ष्ठित्यै॒ पत्न॑य॒ उप॑ गायन्ति मिथुन॒त्वाय॒ प्रजा᳚त्यै प्र॒जा॑पतिः प्र॒जा अ॑सृजत॒ सो॑ऽकामयता॒ऽऽ*साम॒हꣳ रा॒ज्यं परी॑या॒मिति॒ तासाꣳ॑ राज॒नेनै॒व रा॒ज्यं पर्यै॒त् तद्-रा॑ज॒नस्य॑ राजन॒त्वं ॅयद्-रा॑ज॒नं भव॑ति प्र॒जाना॑मे॒व तद्-यज॑माना रा॒ज्यं परि॑ यन्ति पञ्चविꣳ॒॒शं भ॑वति प्र॒जाप॑ते॒ - [ ]
पदपाठः (Word-by-word)
बृ॒हत् । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । अथो॒ इति॑ । प्रेति॑ । ए॒व । तेन॑ । जा॒य॒न्ते॒ । ए॒क॒विꣳ॒॒शमित्ये॑क - विꣳ॒॒शम् । भ॒द्रम् । द्वि॒पदा॒स्विति॑ द्वि - पदा॑सु । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । पत्न॑यः । उपेति॑ । गा॒य॒न्ति॒ । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र-जाः । अ॒सृ॒ज॒त॒ । सः । अ॒का॒म॒य॒त॒ । आ॒साम् । अ॒हम् । रा॒ज्यम् । परीति॑ । इ॒या॒म् । इति॑ । तासा᳚म् । रा॒ज॒नेन॑ । ए॒व । रा॒ज्यम् । परीति॑ । ऐ॒त् । तत् । रा॒ज॒नस्य॑ । रा॒ज॒न॒त्वमिति॑ राजन - त्वम् । यत् । रा॒ज॒नम् । भव॑ति । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । ए॒व । तत् । यज॑मानाः । रा॒ज्यम् । परीति॑ । य॒न्ति॒ । प॒ञ्च॒विꣳ॒॒शमिति॑ पञ्च - विꣳ॒॒शम् । भ॒व॒ति॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ ।