प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.8.4 TS 7.5.8.4
-राप्त्यै॑ प॒ञ्चभि॒-स्तिष्ठ॑न्तः स्तुवन्ति देवलो॒कमे॒वाभि ज॑यन्ति प॒ञ्चभि॒रासी॑ना मनुष्यलो॒कमे॒वाभि ज॑यन्ति॒ दश॒ संप॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वा-न्नाद्य॒मव॑ रुन्धते पञ्च॒धा वि॑नि॒षद्य॑ स्तुवन्ति॒ पञ्च॒ दिशो॑ दि॒क्षवे॑व प्रति॑तिष्ठ॒न्त्येकै॑क॒याऽस्तु॑तया स॒माय॑न्ति दि॒ग्भ्य ए॒वान्नाद्यꣳ॒॒ सं भ॑रन्ति॒ ताभि॑-रुद्गा॒तोद्-गा॑यति दि॒ग्भ्य ए॒वान्नाद्यꣳ॑-[ ]
पदपाठः (Word-by-word)
आप्त्यै᳚ । प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । तिष्ठ॑न्तः । स्तु॒व॒न्ति॒ । दे॒व॒लो॒कमिति॑ देव - लो॒कम् । ए॒व । अ॒भीति॑ । ज॒य॒न्ति॒ । प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । आसी॑नाः । म॒नु॒ष्य॒लो॒कमिति॑ मनुष्य - लो॒कम् । ए॒व । अ॒भीति॑ । ज॒य॒न्ति॒ । दश॑ । समिति॑ । प॒द्य॒न्ते॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न -अद्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । प॒ञ्च॒धेति॑ पञ्च - धा । वि॒नि॒षद्येति॑ वि - नि॒षद्य॑ । स्तु॒व॒न्ति॒ । पञ्च॑ । दिशः॑ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । एकै॑क॒येत्येक॑या - ए॒क॒या॒ । अस्तु॑तया । स॒माय॒न्तीति॑ सं - आय॑न्ति । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । समिति॑ । भ॒र॒न्ति॒ । ताभिः॑ । उ॒द्गा॒तेत्यु॑त् - गा॒ता । उदिति॑ । गा॒य॒ति॒ । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् ।
पदसंख्या: 50