प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.9.2 TS 7.5.9.2
न ह्या॑सा॒मिष॒मूर्ज॑मा॒दद॑त उत्क्रो॒दं कु॑र्वते॒ यथा॑ ब॒न्धान्-मु॑मुचा॒ना उ॑त्क्रो॒दं कु॒र्वत॑ ए॒वमे॒व तद्-यज॑माना देवब॒न्धान्-मु॑मुचा॒ना उ॑त्क्रो॒दं कु॑र्वत॒ इष॒मूर्ज॑मा॒त्मन् दधा॑ना वा॒णः श॒तत॑न्तुर्भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठन्त्या॒जिं धा॑व॒न्त्यन॑भिजितस्या॒-भिजि॑त्यै दुन्दु॒भीन्थ् स॒माघ्न॑न्ति पर॒मा वा ए॒षा वाग्या दु॑न्दु॒भौ प॑र॒मामे॒व - [ ]
पदपाठः (Word-by-word)
न । हि । आ॒सा॒म् । इष᳚म् । ऊर्ज᳚म् । आ॒दद॑त॒ इत्या᳚ - दद॑ते । उ॒त्क्रो॒दमित्यु॑त् - क्रो॒दम् । कु॒र्व॒ते॒ । यथा᳚ । ब॒न्धात् । मु॒मु॒चा॒नाः । उ॒त्क्रो॒दमित्यु॑त् - क्रो॒दम् । कु॒र्वते᳚ । ए॒वम् । ए॒व । तत् । यज॑मानाः । दे॒व॒ब॒न्धादिति॑ देव-ब॒न्धात् । मु॒मु॒चा॒नाः । उ॒त्क्रो॒दमित्यु॑त् - क्रो॒दम् । कु॒र्व॒ते॒ । इष᳚म् । ऊर्ज᳚म् । आ॒त्मन्न् । दधा॑नाः । वा॒णः । श॒तत॑न्तु॒रिति॑ श॒त - त॒न्तुः॒ । भ॒व॒ति॒ । श॒तायु॒रिति॑ श॒त - आ॒युः॒ । पुरु॑षः । श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ । आयु॑षि । ए॒व । इ॒न्द्रि॒ये । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । आ॒जिम् । धा॒व॒न्ति॒ । अन॑भिजित॒स्येत्यन॑भि - जि॒त॒स्य॒ । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । दु॒न्दु॒भीन् । स॒माघ्न॒न्तीति॑ सं - आघ्न॑न्ति । प॒र॒मा । वै । ए॒षा । वाक् । या । दु॒न्दु॒भौ । प॒र॒माम् । ए॒व ।
पदसंख्या: 50