प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.5.9.3 TS 7.5.9.3
वाच॒मव॑ रुन्धते भूमिदुन्दु॒भिमा घ्न॑न्ति॒ यैवेमां ॅवाक् प्रवि॑ष्टा॒ तामे॒वाव॑ रुन्ध॒ते ऽथो॑ इ॒मामे॒व ज॑यन्ति॒ सर्वा॒ वाचो॑ वदन्ति॒ सर्वा॑सां ॅवा॒चामव॑रुद्ध्या आ॒र्द्रेचर्म॒न् व्याय॑च्छेते इन्द्रि॒यस्या व॑रुद्ध्या॒ आऽन्यः क्रोश॑ति॒ प्रान्यः शꣳ॑सति॒ य आ॒क्रोश॑ति पु॒नात्ये॒वैना॒न्थ्स यः प्र॒शꣳस॑ति पू॒तेष्वे॒वान्नाद्यं॑ दधा॒त्यृषि॑कृतं च॒ - [ ]
पदपाठः (Word-by-word)
वाच᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । भू॒मि॒दु॒न्दु॒भिमिति॑ भूमि - दु॒न्दु॒भिम् । एति॑ । घ्न॒न्ति॒ । या । ए॒व । इ॒माम् । वाक् । प्रवि॒ष्टेति॒ प्र - वि॒ष्टा॒ । ताम् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । अथो॒ इति॑ । इ॒माम् । ए॒व । ज॒य॒न्ति॒ । सर्वाः᳚ । वाचः॑ । व॒द॒न्ति॒ । सर्वा॑साम् । वा॒चाम् । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । आ॒र्द्रे । चर्मन्न्॑ । व्याय॑च्छेते॒ इति॑ वि-आय॑च्छेते । इ॒न्द्रि॒यस्य॑ । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । एति॑ । अ॒न्यः । क्रोश॑ति । प्रेति॑ । अ॒न्यः । शꣳ॒॒स॒ति॒ । यः । आ॒क्रोश॒तीत्या᳚-क्रोश॑ति । पु॒नाति॑ । ए॒व । ए॒ना॒न् । सः । यः । प्र॒शꣳस॒तीति॑ प्र - शꣳस॑ति । पू॒तेषु॑ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । द॒धा॒ति॒ । ऋषि॑कृत॒मित्यृषि॑-कृ॒त॒म् । च॒ ।
पदसंख्या: 50