वा ए॒ते दे॒वकृ॑तं च॒ पूर्वै॒र्मासै॒रव॑ रुन्धते॒ यद्-भू॑ते॒च्छदाꣳ॒॒ सामा॑नि॒ भव॑न्त्यु॒भय॒स्याव॑रुद्ध्यै॒ यन्ति॒ वा ए॒ते मि॑थु॒नाद्ये सं॑ॅवथ्स॒र-मु॑प॒यन्त्य॑न्तर्वे॒दि मि॑थु॒नौ सं भ॑वत॒स्तेनै॒व मि॑थु॒नान्न य॑न्ति ॥
पदपाठः (Word-by-word)
वै । ए॒ते । दे॒वकृ॑त॒मिति॑ दे॒व-कृ॒त॒म् । च॒ । पूर्वैः᳚ । मासैः᳚ । अवेति॑ । रु॒न्ध॒ते॒ । यत् । भू॒ते॒च्छदा॒मिति॑ भूते - छदा᳚म् । सामा॑नि । भव॑न्ति । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । यन्ति॑ । वै । ए॒ते । मि॒थु॒नात् । ये । सं॒ॅव॒थ्स॒रमिति॑ सं-व॒थ्स॒रम् । उ॒प॒यन्तीत्यु॑प-यन्ति॑ । अ॒न्त॒र्वे॒दीत्य॑न्तः - वे॒दि । मि॒थु॒नौ । समिति॑ । भ॒व॒तः॒ । तेन॑ । ए॒व । मि॒थु॒नात् । न । य॒न्ति॒ ॥