प्रश्नः 8 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.8.14.2 TS 1.8.14.2
स्तेज॑सा॒ सूर्य॑स्य॒ वर्च॒सेन्द्र॑स्येन्द्रि॒येण॑ मि॒त्रावरु॑णयोर् वी॒र्ये॑ण म॒रुता॒मोज॑सा क्ष॒त्राणां᳚ क्ष॒त्रप॑तिर॒स्यति॑ दि॒वस्पा॑हि स॒माव॑वृत्रन्न-ध॒रागुदी॑ची॒-रहिं॑ बु॒द्ध्निय॒मनु॑ स॒ञ्चर॑न्ती॒स्ताः पर्व॑तस्य वृष॒भस्य॑ पृ॒ष्ठे नाव॑श्चरन्ति स्व॒सिच॑ इया॒नाः ॥ रुद्र॒ यत्ते॒ क्रयी॒ परं॒ नाम॒ तस्मै॑ हु॒तम॑सि य॒मेष्ट॑मसि । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ( ) ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣳ स्या॑म॒ पत॑यो रयी॒णां ॥
पदपाठः (Word-by-word)
तेज॑सा । सूर्य॑स्य । वर्च॑सा । इन्द्र॑स्य । इ॒न्द्रि॒येण॑ । मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः । वी॒र्ये॑ण । म॒रुता᳚म् । ओज॑सा । क्ष॒त्राणा᳚म् । क्ष॒त्रप॑ति॒रिति॑ क्ष॒त्र - प॒तिः॒ । अ॒सि॒ । अतीति॑ । दि॒वः । पा॒हि॒ । स॒माव॑वृत्र॒न्निति॑ सं - आव॑वृत्रन्न् । अ॒ध॒राक् । उदी॑चीः । अहि᳚म् । बु॒द्ध्निय᳚म् । अन्विति॑॑ । स॒ञ्चर॑न्ती॒रिति॑ सं-चर॑न्तीः । ताः । पर्व॑तस्य । वृ॒ष॒भस्य॑ । पृ॒ष्ठे । नावः॑ । च॒र॒न्ति॒ । स्व॒सिच॒ इति॑ स्व-सिचः॑ । इ॒या॒नाः ॥ रुद्र॑ । यत् । ते॒ । क्रयि॑ । पर᳚म् । नाम॑ । तस्मै᳚ । हु॒तम् । अ॒सि॒ । य॒मेष्ट॒मिति॑ य॒म - इ॒ष्ट॒म् । अ॒सि॒ ॥ प्रजा॑पत॒ इति॒ प्रजा᳚-प॒ते॒ । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा᳚ । जा॒तानि॑ । परीति॑ । ता ( ) । ब॒भू॒व॒ ॥ यत्का॑मा॒ इति॒ यत् - का॒माः॒ । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥
पदसंख्या: 61