प्रश्नः 8 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 1.8.15.2 TS 1.8.15.2
मां मा॒ता पृ॑थि॒वी हिꣳ॑सी॒दिय॑द॒स्यायु॑-र॒स्यायु॑र् मे धे॒ह्यूर्ग॒स्यूर्जं॑ मे धेहि॒ युङ्ङ॑सि॒ वर्चो॑ऽसि॒ वर्चो॒ मयि॑ धेह्य॒ग्नये॑ गृ॒हप॑तये॒ स्वाहा॒ सोमा॑य॒ वन॒स्पत॑ये॒ स्वाहेन्द्र॑स्य॒ बला॑य॒ स्वाहा॑ म॒रुता॒मोज॑से॒ स्वाहा॑ हꣳ॒॒सः शु॑चि॒षद् वसु॑रन्तरिक्ष॒ -सद्धोता॑ वेदि॒षदति॑थिर् दुरोण॒सत् । नृ॒षद् व॑र॒सदृ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा ( ) अ॑द्रि॒जा ऋ॒तं बृ॒हत् ॥
पदपाठः (Word-by-word)
माम् । मा॒ता । पृ॒थि॒वी । हिꣳ॒॒सी॒त् । इय॑त् । अ॒सि॒ । आयुः॑ । अ॒सि॒ । आयुः॑ । मे॒ । धे॒हि॒ । ऊर्क् । अ॒सि॒ । ऊर्ज᳚म् । मे॒ । धे॒हि॒ । युङ् । अ॒सि॒ । वर्चः॑ । अ॒सि॒ । वर्चः॑ । मयि॑ । धे॒हि॒ । अ॒ग्नये᳚ । गृ॒हप॑तय॒ इति॑ गृ॒ह-प॒त॒ये॒ । स्वाहा᳚ । सोमा॑य । वन॒स्पत॑ये । स्वाहा᳚ । इन्द्र॑स्य । बला॑य । स्वाहा᳚ । म॒रुता᳚म् । ओज॑से । स्वाहा᳚ । हꣳ॒॒सः । शु॒चि॒षदिति॑ शुचि - सत् । वसुः॑ । अ॒न्त॒रि॒क्ष॒दित्य॑न्तरिक्ष - सत् । होता᳚ । वे॒दि॒षदिति॑ वेदि - सत् । अति॑थिः । दु॒रो॒ण॒सदिति॑ दुरोण - सत् ॥ नृ॒षदिति॑ नृ - सत् । व॒र॒सदिति॑ वर - सत् । ऋ॒त॒सदित्यृ॑त -सत् । व्यो॒म॒सदिति॑ व्योम - सत् । अ॒ब्जा इत्य॑प् - जाः । गो॒जा इति॑ गो - जाः । ऋ॒त॒जा इत्यृ॑त-जाः ( ) । अ॒द्रि॒जा इत्य॑द्रि - जाः । ऋ॒तं । बृ॒हत् ॥
पदसंख्या: 53