ब्रह्मा(3)न् त्वꣳ रा॑जन् ब्र॒ह्माऽसि॑ मि॒त्रो॑ऽसि सु॒शेवो॒ ब्रह्मा(3)न् त्वꣳ रा॑जन् ब्र॒ह्माऽसि॒ वरु॑णोऽसि स॒त्यध॒र्मेन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्तेन॑ मे रद्ध्य॒ दिशो॒ऽभ्य॑यꣳ राजा॑ऽभू॒थ् सुश्लो॒काॅ(4) सुम॑ङ्ग॒लाॅ(4) सत्य॑रा॒जा(3)न् । अ॒पां नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒ऽग्नये॑ गृ॒हप॑तये॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
ब्रह्मा(3)न् । त्वम् । रा॒ज॒न्न् । ब्र॒ह्मा । अ॒सि॒ । मि॒त्रः । अ॒सि॒ । सु॒शेव॒ इति॑ सु - शेवः॑ । ब्रह्मा(3)न् । त्वम् । रा॒ज॒न्न् । ब्र॒ह्मा । अ॒सि॒ । वरु॑णः । अ॒सि॒ । स॒त्यध॒र्मेति॑ स॒त्य - ध॒र्मा॒ । इन्द्र॑स्य । वज्रः॑ । अ॒सि॒ । वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । तेन॑ । मे॒ । र॒द्ध्य॒ । दिशः॑ । अ॒भीति॑ । अ॒यम् । राजा᳚ । अ॒भू॒त् । सुश्लो॒काॅ(4) इति॒ सु - श्लो॒काॅ(4) । सुम॑ङ्ग॒लाॅ(4) इति॒ सु - म॒ङ्ग॒लाॅ(4) । सत्य॑रा॒जा(3)निति॒ सत्य॑ - रा॒जा(3)न् ॥ अ॒पाम् । नप्त्रे᳚ । स्वाहा᳚ । ऊ॒र्जः । नप्त्रे᳚ । स्वाहा᳚ । अ॒ग्नये᳚ । गृ॒हप॑तय॒ इति॑ गृ॒ह - प॒त॒ये॒ । स्वाहा᳚ ॥ 32