ॅयथाऽस॑ति । सु॒गं मे॒षाय॑ मे॒ष्या॑ अवां᳚ब रु॒द्र-म॑दिम॒ह्यव॑ दे॒वं त्य्रं॑बकं । यथा॑ नः॒ श्रेय॑सः॒ कर॒द् यथा॑ नो॒ वस्य॑सः॒ कर॒द् यथा॑ नः पशु॒मतः॒ कर॒द् यथा॑ नो व्यवसा॒यया᳚त् ॥ त्य्रं॑बकं ॅयजामहे सुग॒न्धिं पु॑ष्टि॒वर्द्ध॑नं । उ॒र्वा॒रु॒क-मि॑व॒ बन्ध॑नान् मृ॒त्योर् मु॑क्षीय॒ माऽमृता᳚त् ॥ ए॒ष ते॑ रुद्र भा॒गस्तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तोऽती॒ह्य ( ) व॑ततधन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ॥
पदपाठः (Word-by-word)
यथा᳚ । अस॑ति ॥ सु॒गमिति॑ सु-गम् । मे॒षाय॑ । मे॒ष्यै᳚ । अवेति॑ । अ॒बं॒ । रु॒द्रम् । अ॒दि॒म॒हि॒ । अवेति॑ । दे॒वम् । त्र्य॑बंक॒मिति॒ त्रि-अ॒बं॒क॒म् ॥ यथा᳚ । नः॒ । श्रेय॑सः । कर॑त् । यथा᳚ । नः॒ । वस्य॑सः । कर॑त् । यथा᳚ । नः॒ । प॒शु॒मत॒ इति॑ पशु - मतः॑ । कर॑त् । यथा᳚ । नः॒ । व्य॒व॒सा॒यया॒दिति॑ वि - अ॒व॒सा॒यया᳚त् ॥ त्र्य॑बंक॒मिति॒ त्रि - अ॒बं॒क॒म् । य॒जा॒म॒हे॒ । सु॒ग॒न्धिमिति॑ सु-ग॒न्धिम् । पु॒ष्टि॒वद्र्ध॑न॒मिति॑ पुष्टि-वद्र्ध॑नम् ॥ उ॒र्वा॒रु॒कम् । इ॒व॒ । बन्ध॑नात् । मृ॒त्योः । मु॒क्षी॒य॒ । मा । अ॒मृता᳚त् ॥ ए॒षः । ते॒ । रु॒द्र॒ । भा॒गः । तम् । जु॒ष॒स्व॒ । तेन॑ । अ॒व॒सेन॑ । प॒रः । मूज॑वत॒ इति॒ मूज॑ - व॒तः॒ । अतीति॑ । इ॒हि॒ ( ) । अव॑ततध॒न्वेत्यव॑तत - ध॒न्वा॒ । पिना॑कहस्त॒ इति॒ पिना॑क - ह॒स्तः॒ । कृत्ति॑वासा॒ इति॒ कृत्ति॑ - वा॒साः॒ ॥