नम॒स्तेभ्यः॒ स्वाहा॒ समू॑ढꣳ॒॒ रक्षः॒ सन्द॑॑ग्धꣳ॒॒ रक्ष॑ इ॒दम॒हꣳ रक्षो॒ऽभि सं द॑हाम्य॒ग्नये॑ रक्षो॒घ्ने स्वाहा॑ य॒माय॑ सवि॒त्रे वरु॑णाय॒ बृह॒स्पत॑ये॒ दुव॑स्वते रक्षो॒घ्ने स्वाहा᳚ प्रष्टिवा॒ही रथो॒ दक्षि॑णा दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्याꣳ॒॒ रक्ष॑सो व॒धं जु॑होमि ह॒तꣳ रक्षोऽव॑धिष्म॒ रक्षो॒ यद् वस्ते॒ तद् दक्षि॑णा ॥
पदपाठः (Word-by-word)
नमः॑ । तेभ्यः॑ । स्वाहा᳚ । समू॑ढ॒मिति॒ सं - ऊ॒ढ॒म् । रक्षः॑ । संद॑ग्ध॒मिति॒ सं-द॒ग्ध॒म् । रक्षः॑ । इ॒दम् । अ॒हम् । रक्षः॑ । अ॒भि । समिति॑ । द॒हा॒मि॒ । अ॒ग्नये᳚ । र॒क्षो॒घ्न इति॑ रक्षः - घ्ने । स्वाहा᳚ । य॒माय॑ । स॒वि॒त्रे । वरु॑णाय । बृह॒स्पत॑ये । दुव॑स्वते । र॒क्षो॒घ्न इति॑ रक्षः-घ्ने । स्वाहा᳚ । प्र॒ष्टि॒वा॒हीति॑ प्रष्टि-वा॒ही । रथः॑ । दक्षि॑णा । दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । अ॒श्विनोः᳚ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता᳚भ्याम् । रक्ष॑सः । व॒धम् । जु॒हो॒मि॒ । ह॒तम् । रक्षः॑ । अव॑धिष्म । रक्षः॑ । यत् । वस्ते᳚ । तत् । दक्षि॑णा ॥