श॒रदा᳚ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्यङ्गि॑रोभि-र्दे॒वेभि॑-र्दे॒वत॑या॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा युनज्मि हेमन्तशिशि॒राभ्यां᳚ त्व॒र्तुना॑ ह॒विषा॑ दीक्षया॒म्याऽहं दी॒क्षाम॑रुहमृ॒तस्य॒ पत्नीं᳚ गाय॒त्रेण॒ छन्द॑सा॒ ब्रह्म॑णा च॒र्तꣳ स॒त्ये॑ऽधाꣳ स॒त्यमृ॒ते॑ऽधां ॥म॒ही मू ॒षु सु॒त्रामा॑ण -मि॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
श॒रदा᳚ । त्वा॒ । ऋ॒तुना᳚ । ह॒विषा᳚ । दी॒क्ष॒या॒मि॒ । अङ्गि॑रोभि॒रित्यङ्गि॑रः- भिः॒ । दे॒वेभिः॑ । दे॒वत॑या । पाङ्क्ते॑न । त्वा॒ । छन्द॑सा । यु॒न॒ज्मि॒ । हे॒म॒न्त॒शि॒शि॒राभ्या॒मिति॑ हेमन्त - शि॒शि॒राभ्या᳚म् । त्वा॒ । ऋ॒तुना᳚ । ह॒विषा᳚ । दी॒क्ष॒या॒मि॒ । एति॑ । अ॒हम् । दी॒क्षाम् । अ॒रु॒ह॒म् । ऋ॒तस्य॑ । पत्नी᳚म् । गा॒य॒त्रेण॑ । छन्द॑सा । ब्रह्म॑णा । च॒ । ऋ॒तम् । स॒त्ये । अ॒धा॒म् । स॒त्यम् । ऋ॒ते । अ॒धा॒म् ॥ म॒हीम् । उ॒ । स्विति॑ । सु॒त्रामा॑ण॒मिति॑ सु - त्रामा॑णम् । इ॒ह । धृतिः॑ । स्वाहा᳚ । इ॒ह । विधृ॑ति॒रिति॒ वि - धृ॒तिः॒ । स्वाहा᳚ । इ॒ह । रन्तिः॑ । स्वाहा᳚ । इ॒ह । रम॑तिः । स्वाहा᳚ ॥