वीक्ष॑माणाय॒ स्वाहा॒ वीक्षि॑ताय॒ स्वाहा॑ सꣳहास्य॒ते स्वाहा॑ स॒जिंहा॑नाय॒ स्वाहो॒-ज्जिहा॑नाय॒ स्वाहा॑ विवर्थ्स्य॒ते स्वाहा॑ वि॒वर्त॑मानाय॒ स्वाहा॒ विवृ॑त्ताय॒ स्वाहो᳚-त्थास्य॒ते स्वाहो॒त्तिष्ठ॑ते॒ स्वाहोत्थि॑ताय॒ स्वाहा॑ विधविष्य॒ते स्वाहा॑ विधून्वा॒नाय॒ स्वाहा॒ विधू॑ताय॒ स्वाहो᳚-त्क्रꣳस्य॒ते स्वाहो॒त्क्राम॑ते॒ स्वाहोत्क्रा᳚न्ताय॒ स्वाहा॑ चङ्क्रमिष्य॒ते स्वाहा॑ चङ्क्र॒म्यमा॑णाय॒ स्वाहा॑ चङ्क्रमि॒ताय॒ स्वाहा॑ कण्डूयिष्य॒ते स्वाहा॑ कण्डू॒यमा॑नाय॒ स्वाहा॑ कण्डूयि॒ताय॒ स्वाहा॑ निकषिष्य॒ते स्वाहा॑ नि॒कष॑माणाय॒ स्वाहा॒ ( ) निक॑षिताय॒ स्वाहा॒ यदत्ति॒ तस्मै॒ स्वाहा॒ यत् पिब॑ति॒ तस्मै॒ स्वाहा॒ यन्मेह॑ति॒ तस्मै॒ स्वाहा॒ यच्छकृ॑त् क॒रोति॒ तस्मै॒ स्वाहा॒ रेत॑से॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
वीक्ष॑माणा॒येति॑ वि-ईक्ष॑माणाय । स्वाहा᳚ । वीक्षि॑ता॒येति॒ वि-ई॒क्षि॒ता॒य॒ । स्वाहा᳚ । सꣳ॒॒हा॒स्य॒त इति॑ सं - हा॒स्य॒ते । स्वाहा᳚ । स॒जिंहा॑ना॒येति॑ सं - जिहा॑नाय । स्वाहा᳚ । उ॒ज्जिहा॑ना॒येत्यु॑त्- जिहा॑नाय । स्वाहा᳚ । वि॒व॒र्थ्स्य॒त इति॑ वि - व॒र्थ्स्य॒ते । स्वाहा᳚ । वि॒वर्त॑माना॒येति॑ वि - वर्त॑मानाय । स्वाहा᳚ । विवृ॑त्ता॒येति॒ वि-वृ॒त्ता॒य॒ । स्वाहा᳚ । उ॒त्था॒स्य॒त इत्यु॑त् - स्था॒स्य॒ते । स्वाहा᳚ । उ॒त्तिष्ठ॑त॒ इत्यु॑त्- तिष्ठ॑ते । स्वाहा᳚ । उत्थि॑ता॒येत्युत् - स्थि॒ता॒य॒ । स्वाहा᳚ । वि॒ध॒वि॒ष्य॒त इति॑ वि - ध॒वि॒ष्य॒ते । स्वाहा᳚ । वि॒धू॒न्वा॒नायेति॑ वि - धू॒न्वा॒नाय॑ । स्वाहा᳚ । विधू॑ता॒येति॒ वि - धू॒ता॒य॒ । स्वाहा᳚ । उ॒त्क्रꣳ॒॒स्य॒त इत्यु॑त्- क्रꣳ॒॒स्य॒ते । स्वाहा᳚ । उ॒त्क्राम॑त॒ इत्यु॑त् - क्राम॑ते । स्वाहा᳚ । उत्क्रा᳚न्ता॒येत्युत् - क्रा॒न्ता॒य॒ । स्वाहा᳚ । च॒ङ्क्र॒मि॒ष्य॒ते । स्वाहा᳚ । च॒ङ्क्र॒म्यमा॑णाय । स्वाहा᳚ । च॒ङ्क्र॒मि॒ताय॑ । स्वाहा᳚ । क॒ण्डू॒यि॒ष्य॒ते । स्वाहा᳚ । क॒ण्डू॒यमा॑नाय । स्वाहा᳚ । क॒ण्डू॒यि॒ताय॑ । स्वाहा᳚ । नि॒क॒षि॒ष्य॒त इति॑ नि - क॒षि॒ष्य॒ते । स्वाहा᳚ । नि॒कष॑माणा॒येति॑ नि - कष॑माणाय । स्वाहा᳚ ( ) । निक॑षिता॒येति॒ नि - क॒षि॒ता॒य॒ । स्वाहा᳚ । यत् । अत्ति॑ । तस्मै᳚ । स्वाहा᳚ । यत् । पिब॑ति । तस्मै᳚ । स्वाहा᳚ । यत् । मेह॑ति । तस्मै᳚ । स्वाहा᳚ । यत् । शकृ॑त् । क॒रोति॑ । तस्मै᳚ । स्वाहा᳚ । रेत॑से । स्वाहा᳚ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । स्वाहा᳚ । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥