प्र॒जां तस्या॒न्तर्य॑न्ति प्र॒जायां॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्यै॑कविꣳ॒॒शम॑न्त॒र्यन्ति॑ प्रति॒ष्ठां तस्या॒न्तर्य॑न्ति प्रति॒ष्ठायां॒ मेऽप्य॑स॒दिति॒ खलु॒ वै य॒ज्ञेन॒ यज॑मानो यजते॒ यस्य॑ त्रिण॒वम॑न्त॒र्यन्त्यृ॒तूꣳश्च॒ तस्य॑ नक्ष॒त्रियां᳚ च वि॒राज॑म॒न्तर्य॑न्त्यृ॒तुषु॒ मेऽप्य॑सन्नक्ष॒त्रिया॑यां च वि॒राजीति॒ - [ ]
पदपाठः (Word-by-word)
प्र॒जामिति॑ प्र - जाम् । तस्य॑ । अ॒न्तः । य॒न्ति॒ । प्र॒जाया॒मिति॑ प्र - जाया᳚म् । मे॒ । अपीति॑ । अ॒स॒त् । इति॑ । खलु॑ । वै । य॒ज्ञेन॑ । यज॑मानः । य॒ज॒ते॒ । यस्य॑ । ए॒क॒विꣳ॒॒शमित्ये॑क - विꣳ॒॒शम् । अ॒न्त॒र्यन्तित्य॑न्तः - यन्ति॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । तस्य॑ । अ॒न्तः । य॒न्ति॒ । प्र॒ति॒ष्ठाया॒मिति॑ प्रति - स्थाया᳚म् । मे॒ । अपीति॑ । अ॒स॒त् । इति॑ । खलु॑ । वै । य॒ज्ञेन॑ । यज॑मानः । य॒ज॒ते॒ । यस्य॑ । त्रि॒ण॒वमिति॑ त्रि - न॒वम् । अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ । ऋ॒तून् । च॒ । तस्य॑ । न॒क्ष॒त्रिया᳚म् । च॒ । वि॒राज॒मिति॑ वि-राज᳚म् । अ॒न्तः । य॒न्ति॒ । ऋ॒तुषु॑ । मे॒ । अपीति॑ । अ॒स॒त् । न॒क्ष॒त्रिया॑याम् । च॒ । वि॒राजीति॑ वि - राजि॑ । इति॑ ।