प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.1.4.2 TS 7.1.4.2
-भिप्ल॒वः पूर्व॒मह॑र्भवति॒ गति॒रुत्त॑रं॒ ज्योति॑ष्टोमोऽग्निष्टो॒मः पूर्व॒मह॑र्भवति॒ तेज॒स्तेनाव॑ रुन्धे॒ सर्व॑स्तोमोऽतिरा॒त्र उत्त॑रꣳ॒॒ सर्व॒स्याऽऽ*प्त्यै॒ सर्व॒स्याऽव॑रुद्ध्यै गाय॒त्रं पूर्वेऽह॒न्थ्साम॑ भवति॒ तेजो॒ वै गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं तेज॑ ए॒व ब्र॑ह्मवर्च॒समा॒त्मन् ध॑त्ते॒ त्रैष्टु॑भ॒मुत्त॑र॒ ओजो॒ वै वी॒र्यं॑ त्रि॒ष्टुगोज॑ ए॒व वी॒र्य॑मा॒त्मन् ध॑त्ते रथंत॒रं पूर्वे॑ - [ ]
पदपाठः (Word-by-word)
अ॒भि॒प्ल॒व इत्य॑भि - प्ल॒वः । पूर्व᳚म् । अहः॑ । भ॒व॒ति॒ । गतिः॑ । उत्त॑र॒मित्युत् - त॒र॒म् । ज्योति॑ष्टोम॒ इति॒ ज्योति॑ - स्तो॒मः॒ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । पूर्व᳚म् । अहः॑ । भ॒व॒ति॒ । तेजः॑ । तेन॑ । अवेति॑ । रु॒न्धे॒ । सर्व॑स्तोम॒ इति॒ सर्व॑-स्तो॒मः॒ । अ॒ति॒रा॒त्र इत्य॑ति-रा॒त्रः । उत्त॑र॒मित्युत् - त॒र॒म् । सर्व॑स्य । आप्त्यै᳚ । सर्व॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । गा॒य॒त्रम् । पूर्वे᳚ । अहन्न्॑ । साम॑ । भ॒व॒ति॒ । तेजः॑ । वै । गा॒य॒त्री । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । तेजः॑ । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । आ॒त्मन्न् । ध॒त्ते॒ । त्रैष्टु॑भम् । उत्त॑र॒ इत्युत् - त॒रे॒ । ओजः॑ । वै । वी॒र्य᳚म् । त्रि॒ष्टुक् । ओजः॑ । ए॒व । वी॒र्य᳚म् । आ॒त्मन्न् । ध॒त्ते॒ । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । पूर्वे᳚ ।
पदसंख्या: 50