- द्य उ॒द्यन्तः॒ स्तोमाः॒ श्रीः सा ऽत्रिꣳ॑ श्र॒द्धादे॑वं॒ ॅयज॑मानं च॒त्वारि॑ वी॒र्या॑णि॒ नोपा॑ऽनम॒न् तेज॑ इन्द्रि॒यं ब्र॑ह्मवर्च॒स-म॒न्नाद्यꣳ॒॒ स ए॒ताꣳश्च॒तुर॒श्चतु॑ष्टोमा॒न्थ् सोमा॑न-पश्य॒त् तानाऽह॑र॒त् तैर॑यजत॒ तेज॑ ए॒व प्र॑थ॒मेना ऽवा॑रुन्धेन्द्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒न्नाद्यं॑ चतु॒र्थेन॒ य ए॒वं ॅवि॒द्वाꣳश्च॒तुर॒श्चतु॑ष्टोमा॒न्थ् सोमा॑ना॒हर॑ति॒ तैर्यज॑ते॒ तेज॑ ए॒व ( ) प्र॑थ॒मेनाव॑ रुन्ध इन्द्रि॒यं द्वि॒तीये॑न ब्रह्मवर्च॒सं तृ॒तीये॑ना॒ऽन्नाद्यं॑ चतु॒र्थेन॒ यामे॒वात्रि॒र्॒. ऋद्धि॒मार्द्ध्नो॒त् तामे॒व यज॑मान ऋद्ध्नोति ॥
पदपाठः (Word-by-word)
ये । उ॒द्यन्त॒ इत्यु॑त् - यन्तः॑ । स्तोमाः᳚ । श्रीः । सा । अत्रि᳚म् । श्र॒द्धादे॑व॒मिति॑ श्र॒द्धा - दे॒व॒म् । यज॑मानम् । च॒त्वारि॑ । वी॒र्या॑णि । न । उपेति॑ । अ॒न॒म॒न्न् । तेजः॑ । इ॒न्द्रि॒यम् । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । सः । ए॒तान् । च॒तुरः॑ । चतु॑ष्टोमा॒निति॒ चतुः॑ - स्तो॒मा॒न्न् । सोमान्॑ । अ॒प॒श्य॒त् । तान् । एति॑ । अ॒ह॒र॒त् । तैः । अ॒य॒ज॒त॒ । तेजः॑ । ए॒व । प्र॒थ॒मेन॑ । अवेति॑ । अ॒रु॒न्ध॒ । इ॒न्द्रि॒यम् । द्वि॒तीये॑न । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । तृ॒तीये॑न । अ॒न्नाद्य॒मित्य॑न्न -अद्य᳚म् । च॒तु॒र्थेन॑ । यः । ए॒वम् । वि॒द्वान् । च॒तुरः॑ । चतु॑ष्टोमा॒निति॒ चतुः॑ - स्तो॒मा॒न् । सोमान्॑ । आ॒हर॒तीत्या᳚ - हर॑ति । तैः । यज॑ते । तेजः॑ । ए॒व ( ) । प्र॒थ॒मेन॑ । अवेति॑ । रु॒न्धे॒ । इ॒न्द्रि॒यम् । द्वि॒तीये॑न । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । तृ॒तीये॑न । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । च॒तु॒र्थेन॑ । याम् । ए॒व । अत्रिः॑ । ऋद्धि᳚म् । आद्र्ध्नो᳚त् । ताम् । ए॒व । यज॑मानः । ऋ॒द्ध्नो॒ति॒ ॥