अनुवाकः 14 TS 7.4.14

(A14)

(अ॒द्भ्य - एका॒न्नत्रिꣳ॒॒शत्)

अनुवाकः 14 - Complete Audio

TS 7.4.14 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒द्भ्यः स्वाहा॒ वह॑न्तीभ्यः॒ स्वाहा॑
PS1.2 परि॒वह॑न्तीभ्यः॒ स्वाहा॑ सम॒न्तं ॅवह॑न्तीभ्यः॒
PS1.3 स्वाहा॒ शीघ्रं॒ ॅवह॑न्तीभ्यः॒ स्वाहा॒
PS1.4 शीभं॒ ॅवह॑न्तीभ्यः॒ स्वाहो॒ग्रं ॅवह॑न्तीभ्यः॒
PS1.5 स्वाहा॑ भी॒मं ॅवह॑न्तीभ्यः॒ स्वाहाऽम्भो᳚भ्यः॒
PS1.6 स्वाहा॒ नभो᳚भ्यः॒ स्वाहा॒ महो᳚भ्यः॒
PS1.7 स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.4.14.1 TS 7.4.14.1
अ॒द्भ्यः स्वाहा॒ वह॑न्तीभ्यः॒ स्वाहा॑ परि॒वह॑न्तीभ्यः॒ स्वाहा॑ सम॒न्तं ॅवह॑न्तीभ्यः॒ स्वाहा॒ शीघ्रं॒ ॅवह॑न्तीभ्यः॒ स्वाहा॒ शीभं॒ ॅवह॑न्तीभ्यः॒ स्वाहो॒ग्रं ॅवह॑न्तीभ्यः॒ स्वाहा॑ भी॒मं ॅवह॑न्तीभ्यः॒ स्वाहाऽम्भो᳚भ्यः॒ स्वाहा॒ नभो᳚भ्यः॒ स्वाहा॒ महो᳚भ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
अ॒द्भ्य इत्य॑त् - भ्यः । स्वाहा᳚ । वह॑न्तीभ्यः । स्वाहा᳚ । प॒रि॒वह॑न्तीभ्य॒ इति॑ परि - वह॑न्तीभ्यः । स्वाहा᳚ । स॒म॒न्तमिति॑ सं-अ॒न्तम् । वह॑न्तीभ्यः । स्वाहा᳚ । शीघ्र᳚म् । वह॑न्तीभ्यः । स्वाहा᳚ । शीभ᳚म् । वह॑न्तीभ्यः । स्वाहा᳚ । उ॒ग्रम् । वह॑न्तीभ्यः । स्वाहा᳚ । भी॒मम् । वह॑न्तीभ्यः । स्वाहा᳚ । अम्भो᳚भ्य॒ इत्यम्भः॑-भ्यः॒ । स्वाहा᳚ । नभो᳚भ्य॒ इति॒ नभः॑ - भ्यः॒ । स्वाहा᳚ । महो᳚भ्य॒ इति॒ महः॑ - भ्यः॒ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 29
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनरपि तत्रैवापां हौमाः - अद्भ्यस्स्वाहेत्यादि ॥ अद्भ्यः सामान्याभिधानं विशेषान्वक्ष्यामीति । 'ऊडिदम्' इति विभक्तेरुदात्तत्वम् । वहन्त्यः । परिवहन्त्यः मण्डलं भ्रमयन्त्यः । कूलं भित्वाऽतिनिष्पतन्त्य इत्यन्ये । समन्तं वहन्त्यः कूले अतिलङ्घ्य पर्वतो गच्छन्त्यः । शीघ्रं द्रुतं यथा कूले निपतिते भवतः तथा । शीभं शोभनं कूलाबाधेन । उग्रं उद्गूर्णं मेघपटलसंछन्नम् । भीमं भीतिहेतुजननं कृष्यमाणकूलपादपं महासत्त्वम् । अम्भांसि अस्मिन् लोके भवाः आपः 'अयं वै लोकोम्भांसि' इति ब्राह्मणम् । नभांसि आन्तरिक्ष्याः । महांसि अमुष्मिन्लोके भवाः । सर्वस्मै जलमात्राय ॥

इति सप्तमे चतुर्थे चतुर्दशोनुवाकः