पञ्चशत् 1 #
बृह॒स्पति॑रकामयत॒ श्रन्मे॑ दे॒वा दधी॑र॒न् गच्छे॑यं पुरो॒धामिति॒ स ए॒तं च॑तुर्विꣳशतिरा॒त्र-म॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑च्छत् पुरो॒धां ॅय ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्विꣳशतिरा॒त्रमास॑ते॒ श्रदे᳚भ्यो मनु॒ष्या॑ दधते॒ गच्छ॑न्ति पुरो॒धां ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑ - [ ]
पदपाठः (Word-by-word)
बृह॒स्पतिः॑ । अ॒का॒म॒य॒त॒ । श्रत् । मे॒ । दे॒वाः । दधी॑रन्न् । गच्छे॑यम् । पु॒रो॒धामिति॑ पुरः - धाम् । इति॑ । सः । ए॒तम् । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्रमिति॑ चतुर्विꣳशति - रा॒त्रम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । तस्मै᳚ । श्रत् । दे॒वाः । अद॑धत । अग॑च्छत् । पु॒रो॒धामिति॑ पुरः - धाम् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्रमिति॑ चतुर्विꣳशति - रा॒त्रम् । आस॑ते । श्रत् । ए॒भ्यः॒ । म॒नु॒ष्याः᳚ । द॒ध॒ते॒ । गच्छ॑न्ति । पु॒रो॒धामिति॑ पुरः-धाम् । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒हा इति॑ त्रि - अ॒हाः । भ॒व॒न्ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् । गौः । अ॒सौ । आयुः॑ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितायां
सप्तमं काण्डम्
तृतीयः प्रपाठकः
1 अथ द्वौ चतुर्विंशतिरात्रौ । तत्रायं प्रथमः अतिरात्रो ज्योतिरादिस्त्र्यहः च त्रिरात्रः । उक्तं च - त्रिरात्रः द्वादशाहस्य दशाहानि पृष्ठ्यच्छन्दोमात्मकानि अतिरात्र इति । अयमधुना विधीयते - बृहस्पतिरित्यादि ॥ बृहस्पतिशब्दे सुट्स्वरावुक्तौ । देवा मे मम श्रद्दधीरन् श्रद्धां कुर्वन्तु सत्योयमिति । गच्छेयं च पुरोधां प्राधान्यं पौरोहित्यं वा । पुरश्शब्दस्य उपसर्गवद्भावात् 'आतश्चोपसर्गे' इत्यङ् । भिदादिर्वा द्रष्टव्यः । स एतमित्यादि । गतम् ॥
2 त्र्यहा इत्यादि ॥ चत्वारः, तथा सङ्ख्यापूरणात् । इयं वावेत्यादि । व्याख्यातम् ॥
3 असत्रं वा इत्यादि ॥ द्वादशाहीनस्य द्वादशरात्रस्य विधिः । पृष्ठ्यष्षडहश्छन्दोमा इत्यादि । ते च गताः ॥
4 बृहद्रथन्तराभ्यामित्यादि ॥ गतम् ॥
5 चतुर्विंशतिरात्र इत्यादि ॥ चतुर्विंशतिसङ्ख्य्यान्वयात् चतुर्विंशत्यर्धमासात्मके संवत्सरे स्वर्गस्थानीये प्रतितिष्ठन्ति । अपिच चतुर्विंशत्यक्षरा गायत्री, तल्लाभेन गायत्र्यात्मकब्रह्मवर्चसलाभः । अतिरात्राभ्यां चाभितो ब्रह्मवर्चसस्य परिग्रहः ॥
इति सप्तमे चतुर्थे प्रथमोनुवाकः ॥