अनुवाकः 5 TS 7.4.5

(A5)

(अ॒ह॒र॒- न्ने॒ष्व॑ - वान्त॒रꣳ - षोड॑श स॒ह - स॒प्तद॑श च)

अनुवाकः 5 - Complete Audio

TS 7.4.5 - स्वरानुगामी

0:00 0:00
PS1.1 द्वे वाव दे॑वस॒त्रे द्वा॑दशा॒हश्चै॒व
PS1.2 त्र॑यस्त्रिꣳशद॒हश्च॒ य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते
PS1.3 सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒
PS1.4 खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒
PS1.5 तथा॑ करोति॒ यद्य॑व॒विद्ध्य॑ति॒ पापी॑यान्
PS1.6 भवति॒ यदि॒ नाव॒विद्ध्य॑ति स॒दृङ्
PS1.7 य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳ- शद॒हमास॑ते॒
PS1.8 वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽ* व॑र्तन्ते
PS1.9 ऽह॒र्भाजो॒ वा ए॒ता दे॒वा
PS1.10 अग्र॒ आऽह॑र॒ - [
PS1.11 ]
PS2.1 -न्नह॒रेको ऽभ॑ज॒ता-ह॒रेक॒स्ताभि॒र्वैते प्र॒बाहु॑गार्द्ध्नुव॒न॒. य
PS2.2 ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते॒ सर्व॑ ए॒व
PS2.3 प्र॒बाहु॑गृद्ध्नुवन्ति॒ सर्वे॒ ग्राम॑णीयं॒ प्राप्नु॑वन्ति
PS2.4 पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा
PS2.5 ऋ॒तवः॑ संॅवथ्स॒र ऋ॒तुष्वे॒व सं॑ॅवथ्स॒रे
PS2.6 प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः
PS2.7 पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धते॒
PS2.8 त्रीण्या᳚श्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे
PS2.9 लो॒का ए॒- [ ]
PS3.1 -ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒
PS3.2 त्रीणि॒ वै य॒ज्ञ्स्ये᳚न्द्रि॒याणि॒ तान्ये॒वाव॑
PS3.3 रुन्धते विश्व॒जिद्-भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्यै॒ सर्व॑पृष्ठो
PS3.4 भवति॒ सर्व॑स्या॒भिजि॑त्यै॒ वाग्वै द्वा॑दशा॒हो
PS3.5 यत् पु॒रस्ता᳚द् द्वादशा॒ह-मु॑पे॒युरना᳚प्तां॒ ॅवाच॒-मुपे॑यु-रुप॒दासु॑कैषां॒
PS3.6 ॅवाख् स्या॑-दु॒परि॑ष्टाद् द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व
PS3.7 वाच॒मुप॑ यन्ति॒ तस्मा॑-दु॒परि॑ष्टाद्-वा॒चा व॑दामो
PS3.8 ऽवान्त॒रं - [ ]
PS4.1 ॅवै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा
PS4.2 अ॑सृजत॒ यद्-द॑शरा॒त्रो भव॑ति प्र॒जा
PS4.3 ए॒व तद् यज॑मानाः सृजन्त
PS4.4 ए॒ताꣳ ह॒ वा उ॑द॒ङ्कः
PS4.5 शौ᳚ल्बाय॒नः स॒त्रस्यर्द्धि॑मुवाच॒ यद् द॑शरा॒त्रो
PS4.6 यद् द॑शरा॒त्रो भव॑ति स॒त्रस्यर्द्ध्या॒
PS4.7 अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म
PS4.8 क्रि॒यते॒ तस्यै॒वैषा शान्ति॑द्र्व्यनी॒का वा
PS4.9 ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जिथ्
PS4.10 स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हा
PS4.11 ( ) ति॑रा॒त्रेणोत्त॑राः॒ षोड॑श॒
PS4.12 य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑त॒ ऐषां᳚
PS4.13 द्व्यनी॒का प्र॒जा जा॑यते ऽतिरा॒त्राव॒भितो॑
PS4.14 भवतः॒ परि॑गृहीत्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.4.5.1 TS 7.4.5.1
द्वे वाव दे॑वस॒त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिꣳशद॒हश्च॒ य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विद्ध्य॑ति॒ पापी॑यान् भवति॒ यदि॒ नाव॒विद्ध्य॑ति स॒दृङ् य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳ- शद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽ* व॑र्तन्ते ऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आऽह॑र॒ - [ ]
पदपाठः (Word-by-word)
द्वे इति॑ । वाव । दे॒व॒स॒त्रे इति॑ देव - स॒त्रे । द्वा॒द॒शा॒ह इति॑ द्वादश-अ॒हः । च॒ । ए॒व । त्र॒य॒स्त्रिꣳ॒॒श॒द॒ह इति॑ त्रयस्त्रिꣳशत्-अ॒हः । च॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत्-अ॒हम् । आस॑ते । सा॒क्षादिति॑ स - आ॒क्षात् । ए॒व । दे॒वताः᳚ । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । यथा᳚ । खलु॑ । वै । श्रेयान्॑ । अ॒भ्यारू॑ढ॒ इत्य॑भि - आरू॑ढः । का॒मय॑ते । तथा᳚ । क॒रो॒ति॒ । यदि॑ । अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति । पापी॑यान् । भ॒व॒ति॒ । यदि॑ । न । अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति । स॒दृङ्ङिति॑ स - दृङ् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत् - अ॒हम् । आस॑ते । वीति॑ । पा॒प्मना᳚ । भ्रातृ॑व्येण । एति॑ । व॒र्त॒न्ते॒ । अ॒ह॒र्भाज॒ इत्य॑हः - भाजः॑ । वै । ए॒ताः । दे॒वाः । अग्रे᳚ । एति॑ । अ॒ह॒र॒न्न् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ त्रयस्त्रिंशद्रात्राः । तत्र प्रथमः प्रस्तूयते - द्वे ववेत्यादि ॥ देवसत्रे देवानां प्रधानभूते अभिमते सत्रे अत एव देवप्राप्तौ मुख्यसाधनभूते तस्मादेतेन त्रयस्त्रिंशदहेन साक्षादव्यवधानेन देवता अभ्यारोहन्ति सर्वपापनिवृत्तिहेतुत्वात् अस्य । 'गतिर्गतौ' इति पूर्वस्य निपातः, समासश्च । तदेवाह - यथा खल्वित्यादि । यथा लोके कश्चित्छ्रेयान् पुरुषः अभ्यारूढः कामयते पुनरप्युच्छ्रितो भवितुं कामयते तथा च करोति तदनुरूपं च यागादि कर्मारभते तथा कुर्वन्नसौ यद्यवविध्यति तन्निर्वहणाशक्तौ यद्यवहीयते पापीयान् पापतरो भवति श्रेयानेव स्यात् । अथ यदि कश्चिन्नावविध्यति सदृङ् समानरूप एव स्यात् नोत्कर्षलाभः, प्रमादसम्भावनया निर्दोषत्वनिश्चयाभावात् । त्रयस्त्रिंशदहस्तु तमपि दोषं निवर्तयतीति भ्रातृव्यभूतेन सर्वेण पाप्मना व्यावर्तन्ते व्यावृत्तिं गच्छन्ति । तस्मादनेन साक्षाद्देवता अभ्यारोहत्येवेति स्तुत्या विधीयते ॥
2 अहर्भाज इत्यादि ॥ एकमहरेको भजते इतरमितर इत्येकैकमहर्भजमाना देवा एताः त्रयस्त्रिंशतं रात्रीराहरन् । अहरेको भजताहरेकः इति वीप्सा विस्पष्टं दर्शयति । अथ ताभिस्ते प्रबाहुक्समं आर्ध्रुवन् सर्वे । य एवमित्यादि । गतम् । ग्रामणीयं सङ्घातस्य नेतृत्वम् । ब्राह्मणादित्वात् ण्यञ् । यस्येति लोपाभावश्छान्दसः । ङित्त्वादाद्युदात्तत्वम् ॥
3 पञ्चाहा इत्यादि ॥ अह्नां प्रदर्शनम् । पश्चाह उक्तः । आभिप्लाविका ज्योतिरादयः अन्त्येन विधिना गृह्यन्ते । सामर्थ्यान् चत्वारः पञ्चाहा भवन्ति, तथाभिमतसङ्ख्यापूरणात् । पञ्च वा ऋतव इत्यादि । व्याख्यातम् ॥
4 त्रीण्याश्विनानीत्यादि ॥ आश्विनेन शस्त्रेण लक्षितानि त्रीण्यहानि अतिरात्राख्यानि । आद्यं मध्यममन्त्यं च । तैः त्रिषु लोकेषु प्रतिष्ठिता भवन्ति त्रित्वान्वयात् । अथो अपि च यज्ञस्येन्द्रियाणि त्रीणि ऋगादीनि गायत्रादीनि वा सवनानि तान्यवरुन्धते । विश्वजित् मध्यममहः सर्वपृष्ठश्च भवति । तत्र विश्वज्जिद्धर्मतया अन्नाद्यावरोधः । सर्वपृष्ठत्वगुणेन सर्वस्य जयः । ततश्चत्रिषु पञ्चाहेषु व्यतीतेषु विश्वजित् अतिरात्रः तत एकाहः पञ्चाह इति (आद्यन्तातिरात्रौ) इत्थं त्रयोविंशतिरहानि भवन्ति ॥
5 अथ द्वादशाहः परिशिष्यते, विधातुमाह - वाग्वा इत्यादि ॥ तद्धेतुत्वात्ताच्छब्द्यम् । विश्वजितोतिरात्रात् पुरस्ताद्यदि द्वादशाहमुपेयुः अनाप्तां अपर्याप्तां मन्त्रैः क्षीणां उपेयुः । ततश्चोपदासुका उपक्षयशीला यजमानानां वाक् स्यात् । छान्दस उकञ् । तस्मादुपरिष्टादेव द्वादशाहमुपयन्ति । आप्तामेव वाचमुपयन्ति । तस्मात् उपरिष्टात् ऊर्ध्वं नाभेर्वर्तमानतया उच्छ्रिततया सर्वेऽपि वयं वदामः ॥
6 इदानीं द्वादशाहीयं दशरात्रमुपादित्समानः स्तौति - अवान्तरमित्यादि ॥ द्वादशाहावयवभूतेन दशरात्रेणेत्यर्थः । पुनरपि स्तौति - तामित्यादि । शुल्बस्य उदङ्को नाम पुत्र एतामेव दशरात्रात्मिकां सत्रस्य द्वादशाहस्य ऋद्धिं सत्रफलस्य वाचस्स्समृद्विं समृद्धिहेतुमुवाच । यद्वा - सत्रस्य त्रयस्त्रिंशद्रात्रस्य ऋद्धिं फलसमृद्धिहेतुं एतद्दशरात्रमुवाच तस्माद्दशरात्रः सत्रस्य ऋद्ध्यै भवति । अथो अपि च यत्पूर्वेष्वहस्सु प्रमादाद्विलोम विगुणं क्रियते तस्य शान्तिरेषैवेति वेदितव्यम् ॥
7 'द्व्यनीका इत्यादि ॥ द्व्यनीकाः द्विव्यूहा । निरुदकादित्वादुतरपदान्तोदात्तत्वम् । तत्रातिरात्रादिषोडशक आद्यो व्यूहः । अतिरात्रान्त अन्यो व्यूहः । तयोरन्तर्विश्वजिदतिरात्रः यजमानात्मा । तदिदमाह - यजमाना विश्वजिदित्यादि । द्व्यनीका स्त्रीपुंसात्मकव्यूहद्वयवती प्रजा आजायते सर्वतो जायते । अभितोऽतिरात्रौ सामर्थ्यात् उक्तानां कलानां परिग्रहाय भवतः ॥
इति सप्तमे चतुर्थे पञ्चमोनुवाकः ॥
पञ्चशत् 2 #
TS 7.4.5.2 TS 7.4.5.2
-न्नह॒रेको ऽभ॑ज॒ता-ह॒रेक॒स्ताभि॒र्वैते प्र॒बाहु॑गार्द्ध्नुव॒न॒. य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृद्ध्नुवन्ति॒ सर्वे॒ ग्राम॑णीयं॒ प्राप्नु॑वन्ति पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तवः॑ संॅवथ्स॒र ऋ॒तुष्वे॒व सं॑ॅवथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धते॒ त्रीण्या᳚श्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒- [ ]
पदपाठः (Word-by-word)
अहः॑ । एकः॑ । अभ॑जत । अहः॑ । एकः॑ । ताभिः॑ । वै । ते । प्र॒बाहु॒गिति॑ प्र - बाहु॑क् । आ॒द्‌र्ध्नु॒व॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत् - अ॒हम् । आस॑ते । सर्वे᳚ । ए॒व । प्र॒बाहु॒गिति॑ प्र - बाहु॑क् । ऋ॒द्ध्नु॒व॒न्ति॒ । सर्वे᳚ । ग्राम॑णीय॒मिति॒ ग्राम॑ - नी॒य॒म् । प्रेति॑ । आ॒प्नु॒व॒न्ति॒ । प॒ञ्चा॒हा इति॑ पञ्च-अ॒हाः । भ॒व॒न्ति॒ । पञ्च॑ । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ऋ॒तुषु॑ । ए॒व । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रे । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । त्रीणि॑ । आ॒श्वि॒नानि॑ । भ॒व॒न्ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒षु ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.4.5.3 TS 7.4.5.3
-ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒ त्रीणि॒ वै य॒ज्ञ्स्ये᳚न्द्रि॒याणि॒ तान्ये॒वाव॑ रुन्धते विश्व॒जिद्-भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्यै॒ सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै॒ वाग्वै द्वा॑दशा॒हो यत् पु॒रस्ता᳚द् द्वादशा॒ह-मु॑पे॒युरना᳚प्तां॒ ॅवाच॒-मुपे॑यु-रुप॒दासु॑कैषां॒ ॅवाख् स्या॑-दु॒परि॑ष्टाद् द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व वाच॒मुप॑ यन्ति॒ तस्मा॑-दु॒परि॑ष्टाद्-वा॒चा व॑दामो ऽवान्त॒रं - [ ]
पदपाठः (Word-by-word)
ए॒व । लो॒केषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । त्रीणि॑ । वै । य॒ज्ञ्स्य॑ । इ॒न्द्रि॒याणि॑ । तानि॑ । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । वि॒श्व॒जिदिति॑ विश्व - जित् । भ॒व॒ति॒ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ । भ॒व॒ति॒ । सर्व॑स्य । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । वाक् । वै । द्वा॒द॒शा॒ह इति॑ द्वादश - अ॒हः । यत् । पु॒रस्ता᳚त् । द्वा॒द॒शा॒हमिति द्वादश - अ॒हम् । उ॒पे॒युरित्यु॑प-इ॒युः । अना᳚प्ताम् । वाच᳚म् । उपेति॑ । इ॒युः॒ । उ॒प॒दासु॒केत्यु॑प - दासु॑का । ए॒षा॒म् । वाक् । स्या॒त् । उ॒परि॑ष्टात् । द्वा॒द॒शा॒हमिति॑ द्वादश - अ॒हम् । उपेति॑ । य॒न्ति॒ । आ॒प्ताम् । ए॒व । वाच᳚म् । उपेति॑ । य॒न्ति॒ । तस्मा᳚त् । उ॒परि॑ष्टात् । वा॒चा । व॒दा॒मः॒ । अ॒वा॒न्त॒रमित्य॑व - अ॒न्त॒रम् ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 7.4.5.4 TS 7.4.5.4
ॅवै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्-द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद् यज॑मानाः सृजन्त ए॒ताꣳ ह॒ वा उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्रस्यर्द्धि॑मुवाच॒ यद् द॑शरा॒त्रो यद् द॑शरा॒त्रो भव॑ति स॒त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑द्र्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जिथ् स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हा ( ) ति॑रा॒त्रेणोत्त॑राः॒ षोड॑श॒ य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑त॒ ऐषां᳚ द्व्यनी॒का प्र॒जा जा॑यते ऽतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
वै । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र - जाः । अ॒सृ॒ज॒त॒ । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । भव॑ति । प्र॒जा इति॑ प्र - जाः । ए॒व । तत् । यज॑मानाः । सृ॒ज॒न्ते॒ । ए॒ताम् । ह॒ । वै । उ॒द॒ङ्कः । शौ॒ल्बा॒य॒नः । स॒त्रस्य॑ । ऋद्धि᳚म् । उ॒वा॒च॒ । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । भव॑ति । स॒त्रस्य॑ । ऋद्ध्यै᳚ । अथो॒ इति॑ । यत् । ए॒व । पूर्वे॑षु । अह॒स्स्वित्यहः॑ - सु॒ । विलो॒मेति॒ वि - लो॒म॒ । क्रि॒यते᳚ । तस्य॑ । ए॒व । ए॒षा । शान्तिः॑ । द्व्य॒नी॒का इति॑ द्वि - अ॒नी॒काः । वै । ए॒ताः । रात्र॑यः । यज॑मानाः । वि॒श्व॒जिदिति॑ विश्व - जित् । स॒ह । अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ । पूर्वाः᳚ । षोड॑श । स॒ह ( ) । अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ । उत्त॑रा॒ इत्युत् - त॒राः॒ । षोड॑श । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत् - अ॒हम् । आस॑ते । एति॑ । ए॒षा॒म् । द्व्य॒नी॒केति॑ द्वि - अ॒नी॒का । प्र॒जेति॑ प्र - जा । जा॒य॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 67