पञ्चशत् 1 #
आ॒दि॒त्या अ॑कामयन्त सुव॒र्गं ॅलो॒कमि॑या॒मेति॒ ते सु॑व॒र्गं ॅलो॒कं न प्राजा॑न॒न्न सु॑व॒र्गं ॅलो॒कमा॑य॒न् त ए॒तꣳ ष॑ट्त्रिꣳशद्रा॒त्र-म॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं ॅलो॒कं प्राजा॑नन्थ् सुव॒र्गं ॅलो॒कमा॑य॒न्॒. य ए॒वं ॅवि॒द्वाꣳसः॑ षट्त्रिꣳशद् रा॒त्रमास॑ते सुव॒र्गमे॒व लोकं प्र जा॑नन्ति सुव॒र्गं ॅलो॒कं ॅय॑न्ति॒ ज्योति॑रतिरा॒त्रो - [ ]
पदपाठः (Word-by-word)
आ॒दि॒त्याः । अ॒का॒म॒य॒न्त॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । इ॒या॒म॒ । इति॑ । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । न । प्रेति॑ । अ॒जा॒न॒न्न् । न । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । ते । ए॒तम् । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्रमिति॑ षट्त्रिꣳशत् - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । प्रेति॑ । अ॒जा॒न॒न्न् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्रमिति॑ षट्त्रिꣳशत् - रा॒त्रम् । आस॑ते । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । प्रेति॑ । जा॒न॒न्ति॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । ज्योतिः॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ षट्त्रिंशद्रात्रो विधीयते - आदित्या इत्यादि ॥ गतम् । ते सुवर्गं लोकं न प्रजानन् न चागच्छन् । ज्योतिरित्यादि । व्याख्यातम् ॥
2 षडहा इति ॥ अभिप्लवाः । ते चोक्ताः । चत्वार इति । तेनातिरात्रेण सह पञ्चविंशतिः ॥
3 असत्रं वा इत्यादि ॥ द्वादशाहीयस्य दशरात्रस्य विधिर्गतः ॥
4 षत्रिंदशद्रात्र इति ॥ वक्ष्यमाणेन अतिरात्रेण सह । बार्हताः पशव इति तस्याः पशुसिद्धिहेतुत्वात् । तेन च षट्त्रिंशत्सङ्ख्यान्वयेन बार्हतान् पशून् अवरुन्धते । बृहतीशब्द उत्सादिरित्युक्तम् । बृहती छन्दसामित्यादि । यस्माद्बृहती छन्दसां स्वाराज्यमाश्नुत आधिपत्यं प्राप्तवती तस्मादेवं विद्वांसो यजमाना राज्यमश्नुवते स्वर्गं च गच्छन्ति । अतिरात्रौ चाभितो भवतः स्वर्गस्यैव परिग्रहाय । समानवाक्ये पदात्परत्वाभावात्तिङ्परत्वाद्वा अश्नुवत इति न निहन्यते । स्वाराज्यं स्वराट्छब्दात् 'गुणवचनब्राह्मणादिभ्यः' इतिष्यञ् ॥
इति सप्तमे चतुर्थे षष्ठोनुवाकः ॥