अनुवाकः 6 TS 7.4.6

(A6)

(अ॒ति॒रा॒त्र - ओज॑स्ये॒व - षट्त्रिꣳ॑शच्च)

अनुवाकः 6 - Complete Audio

TS 7.4.6 - स्वरानुगामी

0:00 0:00
PS1.1 आ॒दि॒त्या अ॑कामयन्त सुव॒र्गं ॅलो॒कमि॑या॒मेति॒
PS1.2 ते सु॑व॒र्गं ॅलो॒कं न
PS1.3 प्राजा॑न॒न्न सु॑व॒र्गं ॅलो॒कमा॑य॒न् त
PS1.4 ए॒तꣳ ष॑ट्त्रिꣳशद्रा॒त्र-म॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒
PS1.5 ततो॒ वै ते सु॑व॒र्गं
PS1.6 ॅलो॒कं प्राजा॑नन्थ् सुव॒र्गं ॅलो॒कमा॑य॒न्॒.
PS1.7 य ए॒वं ॅवि॒द्वाꣳसः॑ षट्त्रिꣳशद्
PS1.8 रा॒त्रमास॑ते सुव॒र्गमे॒व लोकं प्र
PS1.9 जा॑नन्ति सुव॒र्गं ॅलो॒कं ॅय॑न्ति॒
PS1.10 ज्योति॑रतिरा॒त्रो - [ ]
PS2.1 भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द् दधते
PS2.2 सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै षड॒हा भ॑वन्ति॒
PS2.3 षड् वा ऋ॒तव॑ ऋ॒तुष्वे॒व
PS2.4 प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒
PS2.5 चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑
PS2.6 तिष्ठ॒न्त्यस॑त्रं॒ ॅवा ए॒तद्-यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा
PS2.7 भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑
PS2.8 ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒
PS2.9 वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑
PS2.10 छन्दो॒मा ओज॑स्ये॒व - [
PS2.11 ]
PS3.1 वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति
PS3.2 षट्-त्रिꣳशद् रा॒त्रो भ॑वति॒ षट्त्रिꣳ॑शदक्षरा
PS3.3 बृह॒ती बार्.ह॑ताः प॒शवो॑ बृह॒त्यैव
PS3.4 प॒शूनव॑ रुन्धते बृह॒ती छन्द॑साꣳ॒॒
PS3.5 स्वारा᳚ज्यमाश्नुता-श्नु॒वते॒ स्वारा᳚ज्यं॒ ॅय ए॒वं
PS3.6 ॅवि॒द्वाꣳसः॑ षट्त्रिꣳशद् रा॒त्रमास॑ते सुव॒र्गमे॒व
PS3.7 लो॒कं ॅय॑न्त्यतिरा॒त्राव॒भितो॑ भवतः सुव॒र्गस्य॑
PS3.8 लो॒कस्य॒ परि॑गृहीत्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.4.6.1 TS 7.4.6.1
आ॒दि॒त्या अ॑कामयन्त सुव॒र्गं ॅलो॒कमि॑या॒मेति॒ ते सु॑व॒र्गं ॅलो॒कं न प्राजा॑न॒न्न सु॑व॒र्गं ॅलो॒कमा॑य॒न् त ए॒तꣳ ष॑ट्त्रिꣳशद्रा॒त्र-म॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं ॅलो॒कं प्राजा॑नन्थ् सुव॒र्गं ॅलो॒कमा॑य॒न्॒. य ए॒वं ॅवि॒द्वाꣳसः॑ षट्त्रिꣳशद् रा॒त्रमास॑ते सुव॒र्गमे॒व लोकं प्र जा॑नन्ति सुव॒र्गं ॅलो॒कं ॅय॑न्ति॒ ज्योति॑रतिरा॒त्रो - [ ]
पदपाठः (Word-by-word)
आ॒दि॒त्याः । अ॒का॒म॒य॒न्त॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । इ॒या॒म॒ । इति॑ । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । न । प्रेति॑ । अ॒जा॒न॒न्न् । न । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । ते । ए॒तम् । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्रमिति॑ षट्त्रिꣳशत् - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । प्रेति॑ । अ॒जा॒न॒न्न् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्रमिति॑ षट्त्रिꣳशत् - रा॒त्रम् । आस॑ते । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । प्रेति॑ । जा॒न॒न्ति॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । ज्योतिः॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ षट्त्रिंशद्रात्रो विधीयते - आदित्या इत्यादि ॥ गतम् । ते सुवर्गं लोकं न प्रजानन् न चागच्छन् । ज्योतिरित्यादि । व्याख्यातम् ॥
2 षडहा इति ॥ अभिप्लवाः । ते चोक्ताः । चत्वार इति । तेनातिरात्रेण सह पञ्चविंशतिः ॥
3 असत्रं वा इत्यादि ॥ द्वादशाहीयस्य दशरात्रस्य विधिर्गतः ॥
4 षत्रिंदशद्रात्र इति ॥ वक्ष्यमाणेन अतिरात्रेण सह । बार्हताः पशव इति तस्याः पशुसिद्धिहेतुत्वात् । तेन च षट्त्रिंशत्सङ्ख्यान्वयेन बार्हतान् पशून् अवरुन्धते । बृहतीशब्द उत्सादिरित्युक्तम् । बृहती छन्दसामित्यादि । यस्माद्बृहती छन्दसां स्वाराज्यमाश्नुत आधिपत्यं प्राप्तवती तस्मादेवं विद्वांसो यजमाना राज्यमश्नुवते स्वर्गं च गच्छन्ति । अतिरात्रौ चाभितो भवतः स्वर्गस्यैव परिग्रहाय । समानवाक्ये पदात्परत्वाभावात्तिङ्परत्वाद्वा अश्नुवत इति न निहन्यते । स्वाराज्यं स्वराट्छब्दात् 'गुणवचनब्राह्मणादिभ्यः' इतिष्यञ् ॥
इति सप्तमे चतुर्थे षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 7.4.6.2 TS 7.4.6.2
भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द् दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै षड॒हा भ॑वन्ति॒ षड् वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्यस॑त्रं॒ ॅवा ए॒तद्-यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । ज्योतिः॑ । ए॒व । पु॒रस्ता᳚त् । द॒ध॒ते॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । ष॒ड॒हा इति॑ षट् - अ॒हाः । भ॒व॒न्ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुषु॑ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । च॒त्वारः॑ । भ॒व॒न्ति॒ । चत॑स्रः । दिशः॑ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अस॑त्रम् । वै । ए॒तत् । यत् । अ॒छ॒न्दो॒ममित्य॑छन्दः - मम् । यत् । छ॒न्दो॒मा इति॑ छन्दः - माः । भव॑न्ति । तेन॑ । स॒त्रम् । दे॒वताः᳚ । ए॒व । पृ॒ष्ठैः । अवेति॑ । रु॒न्ध॒ते॒ । प॒शून् । छ॒न्दो॒मैरिति॑ छन्दः - मैः । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । प॒शवः॑ । छ॒न्दो॒मा इति॑ छन्दः - माः । ओज॑सि । ए॒व ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.4.6.3 TS 7.4.6.3
वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति षट्-त्रिꣳशद् रा॒त्रो भ॑वति॒ षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्.ह॑ताः प॒शवो॑ बृह॒त्यैव प॒शूनव॑ रुन्धते बृह॒ती छन्द॑साꣳ॒॒ स्वारा᳚ज्यमाश्नुता-श्नु॒वते॒ स्वारा᳚ज्यं॒ ॅय ए॒वं ॅवि॒द्वाꣳसः॑ षट्त्रिꣳशद् रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं ॅय॑न्त्यतिरा॒त्राव॒भितो॑ भवतः सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
वी॒र्ये᳚ । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्र इति॑ षट्त्रिꣳशत्-रा॒त्रः । भ॒व॒ति॒ । षट्त्रिꣳ॑शदक्ष॒रेति॒ षट्त्रिꣳ॑शत्-अ॒क्ष॒रा॒ । बृ॒ह॒ती । बार्.ह॑ताः । प॒शवः॑ । बृ॒ह॒त्या । ए॒व । प॒शून् । अवेति॑ । रु॒न्ध॒ते॒ । बृ॒ह॒ती । छन्द॑साम् । स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् । आ॒श्नु॒त॒ । अ॒श्नु॒वते᳚ । स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्रमिति॑ षट्त्रिꣳशत् - रा॒त्रम् । आस॑ते । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । य॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 36