पञ्चशत् 1 #
किꣳ स्वि॑दासीत् पू॒र्वचि॑त्तिः॒ किꣳ स्वि॑दासीद्-बृ॒हद्वयः॑ । किꣳ स्वि॑दासीत् पिशंगि॒ला किꣳ स्वि॑दासीत् पिलिप्पि॒ला ॥द्यौरा॑सीत् पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वयः॑ । रात्रि॑रासीत् पिशङ्गि॒ला ऽवि॑रासीत् पिलिप्पि॒ला ॥ कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । किꣳ स्वि॑द्धि॒मस्य॑ भेष॒जं किꣳ स्वि॑दा॒वप॑नं म॒हत् ॥ सूर्य॑ एका॒की च॑रति - [ ]
पदपाठः (Word-by-word)
किम् । स्वि॒त् । आ॒सी॒त् । पू॒र्वचि॑त्ति॒रिति॑ पू॒र्व - चि॒त्तिः॒ । किम् । स्वि॒त् । आ॒सी॒त् । बृ॒हत् । वयः॑ ॥ किम् । स्वि॒त् । आ॒सी॒त् । पि॒श॒ङ्गि॒ला । किम् । स्वि॒त् । आ॒सी॒त् । पि॒लि॒प्पि॒ला ॥ द्यौः । आ॒सी॒त् । पू॒र्वचि॑त्ति॒रिति॑ पू॒र्व - चि॒त्तिः॒ । अश्वः॑ । आ॒सी॒त् । बृ॒हत् । वयः॑ ॥ रात्रिः॑ । आ॒सी॒त् । पि॒श॒ङ्गि॒ला । अविः॑ । आ॒सी॒त् । पि॒लि॒प्पि॒ला ॥ कः । स्वि॒त् । ए॒का॒की । च॒र॒ति॒ । कः । उ॒ । स्वि॒त् । जा॒य॒ते॒ । पुनः॑ ॥ किम् । स्वि॒त् । हि॒मस्य॑ । भे॒ष॒जम् । किम् । स्वि॒त् । आ॒वप॑न॒मित्या᳚ - वप॑नम् । म॒हत् ॥ सूर्यः॑ । ए॒का॒की । च॒र॒ति॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ होतुः प्रश्नाः ब्रह्मणः प्रतिवचानानि - किं स्विदासीदित्यादीनि आनुष्टुभस्सर्वोनुवाकः । पृच्छामीति द्वे त्रिष्टुभौ । तत्र प्रथमा 'किं स्वित्' इति प्रश्नः । किमिति सामान्यविवक्षया नपुंसकत्वम् । स्विदिति वितर्के । किन्नु पूर्वचित्तिरासीत् पूर्वा प्रथमा चित्तिः ज्ञानमस्याः किन्नु इदमेव श्रेष्ठमिति प्रथमं चिन्त्यत इत्यर्थः । उत्तरापेक्षया स्त्रीलिङ्गता । यद्वा - पूर्वे देवाः त एव चित्तयश्चेतयितारो यस्याः । कर्मणि क्तिन्, कर्तरि बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तत्रा न्तोदात्तत्वं छान्दसम् । किन्नु खलु बृहत् महत् वयः अन्नमयमासीत् । यदन्नं लब्ध्वा पुनरन्यदन्नं न मृग्यं भवति तन्महत् । किं वा नु खलु पिशङ्गिलाऽऽसीत् । पिश अवयवे रौधादिकः । इगुपधलक्षणः कः । पिशशव्देन रूपादीन्युच्यन्ते । तानि गिरति छादयतीति छान्दसः कः, करणं वा 'घञर्थे कविधानं' इति कः । पचाद्यचि वा 'बहुलं छन्दसि' इति कित्वम, 'अचि विभाषा' इति लत्वं पर्वूपदस्याम्भावः । यद्वा - पिशङ्गो नानावर्णः तेन तद्वती पिशङ्गिला तुन्दादिलक्षणा इलच् । केन रूपादिकं छाद्यते केन वा प्रकाश्यते इत्यहोरात्राभिप्रायेण प्रश्नः । नानावर्णता चाहर्मिश्रत्वात् । किं वा स्वित् पिलिप्पिला आसीत् अत्यर्थं प्रीणयित्री पिलिप्पिला । पृ प्रीतौ, यङ्लुगन्तात्परिपर्तेः पचाद्यचि गुणे उपधाया इत्त्वं उभयत्र लत्वं पकारोपजनः, अभ्यासस्य चेत्वं छान्दसम् । पिलिप्पिलेति धात्वन्तरमौज्ज्वल्यवाचीति केचित् । ततः पचाद्यच् । का स्वित् उज्ज्वलयित्री प्रजानामिति ॥
2 अथ उत्तराणि - द्यौरित्यादीनि ॥ द्यौः पूर्वचित्तिः चित्यानां मुख्यत्वात् देवैर्ज्ञातव्यत्वाच्च । तस्य च साधनं अश्वो बृहद्वयः । तेन हि सकृदिष्ट्वा वरामुच्छ्रितिं प्राप्य पुनरन्यत्स्थानं भोगार्थमिच्छतीति तस्य निमित्तकारणम् । रात्रिः पिशङ्गिला सा हि रूपाणां छादयित्री स्वयं च प्रकाशाप्रकाशव्यामिश्ररूपा, तारकाभिरन्धकारेण च समन्वितत्वात्, अहर्मिश्रत्वाद्वा । अथ तस्याप्यभिवृद्धिकारणं अविः पिलिप्पिला अवति विश्वमित्यविः वृष्टिः । आदित्यप्रभवा श्रीर्वा । सा हि जगत् भृशं प्रीणयति ज्वलयति च 'श्रीर्वै पिलिप्पिला' इति च ब्राह्मणम् ॥
3 'किं स्विदासीत्' इत्यादयः प्रश्नाः उक्तान्यादित्यव्यापारजानि प्रश्नप्रतिवचनानि । इदनीमादित्यमारभ्य प्रश्नाः क्रियन्ते - कोनु खलु एकाकी असहायश्चरति; सामर्थ्यात् सर्वदेति गम्यते । सर्वो हि कदाचिदेकाकी चरति । प्रकृतत्वाच्च वृष्टेः प्रवर्तयिता एकाकी चरतीति । क एव खलु पुनर्जायते अत्रापि सामर्थ्यात् पुनःपुनरिति गम्यते । सर्वोपि हि मृत्वा पुनर्जायते । प्रकृतत्वाच्चादित्यवशात् पुनःपुनर्जायत इति । किं नु खलु हिमस्य शैत्यस्य भेषनं निवर्तकं प्रकृतत्वाच्च चन्द्रमसोत्पादितस्य । किन्नु खलु महदावपनं आवापस्थानं उप्यन्ते अस्मिन्नित्यावपनम्॥
4 अथोत्तराणि - सूर्य इत्यादीनि ॥ सूर्योऽसहायः सर्वदा दिवि चरति । सेनान्यादीनामनुपलम्भात् असहायत्वं मन्यन्ते । चन्द्रमाः पुनःपुनरादित्याज्जायते । तदुत्पादितस्य हिमस्याग्निर्भेषजम् । तत्सृष्टानामोषध्यादीनां भूमिरावपनमिति ॥
5 एवं भूम्यन्तानि प्रश्नप्रतिवचनानि । अधुना भूमेरारभ्य प्रश्नाः क्रियन्ते - पृच्छामीत्याद्याः ॥ हे ब्रह्म त्वां पृच्छामि पृथिव्याः परमन्तं यत्र सर्वा पृथिवी समाप्ता । अथ तत्र प्रतिष्ठितां भुवनस्य नाभिं पृच्छामि यत्र प्रतिबद्धं सर्वं जीवति स नाभिः 'नहोभश्च' इतीङ्प्रत्ययः । हेतुं च पृच्छामि तस्य वृष्णो वर्षितुरश्वस्य व्यापकस्य किं रेतः यतस्सर्वं जायते । अथ तच्च पृच्छामि वाचो वेदात्मिकायाः ऋगादेः तस्य रेतसो विधात्र्याः किं परमं व्योम प्रकृष्टं रक्षास्थानं सर्गप्रतिसर्गनिबन्धनं व्योमेति । विपूर्वादवतेः मन्प्रत्ययः, 'ज्वरत्वरस्रिव्यविमवाम्' इत्यादिना ऊठि गुणः ॥
6 अथोत्तराणि वेदिमित्यादीनि ॥ पृथिव्याः परमन्तं वेदिमाहुः ब्रह्मवादिनः 'सा वा इयं सर्वैव वेदिः' इति च स्तूयते । तत्र निवर्त्यं यज्ञमाहुः भुवनस्य सर्वस्य भूतजातस्य नाभिः । तस्य वृष्णः अश्वस्य यज्ञस्य रेतः सोममाहुः सर्वस्य बीजं यागद्वारेण वृष्ट्याद्युत्पत्तिहेतुत्वात् । अश्वस्यैव वा वर्षितुः सोमो रेतः सर्वलोकजीवनोदकहेतुभूतसोमसाधनत्वात् । तत्फलं वाचः परमं व्योम ब्रह्मैव परमात्मैव प्राप्यत इति ॥
इति सप्तमे चतुर्थे अष्टादशोनुवाकः ॥