पञ्चशत् 1 #
सु॒व॒र्गं ॅवा ए॒ते लो॒कं ॅय॑न्ति॒ ये स॒त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व दी॒क्षाभि॑रा॒त्मानꣳ॑ श्रपयन्त उप॒सद्भि॒-र्द्वाभ्यां॒ ॅलोमाव॑ द्यन्ति॒ द्वाभ्यां॒ त्वचं॒ द्वाभ्या॒मसृ॒द् द्वाभ्यां᳚ माꣳ॒॒सं द्वाभ्या॒मस्थि॒ द्वाभ्यां᳚ म॒ज्जान॑मा॒त्मद॑क्षिणं॒ ॅवै स॒त्रमा॒त्मान॑मे॒व दक्षि॑णां नी॒त्वा सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑याꣳसः सुव॒र्गं ॅलो॒कम॑या॒मेति॑ ( ) ॥
पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । वै । ए॒ते । लो॒कम् । य॒न्ति॒ । ये । स॒त्रम् । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । अ॒भीति॑ । इ॒न्ध॒ते॒ । ए॒व । दी॒क्षाभिः॑ । आ॒त्मान᳚म् । श्र॒प॒य॒न्ते॒ । उ॒प॒सद्भि॒रित्यु॑प॒सत् - भिः॒ । द्वाभ्या᳚म् । लोम॑ । अवेति॑ । द्य॒न्ति॒ । द्वाभ्या᳚म् । त्वच᳚म् । द्वाभ्या᳚म् । असृ॑त् । द्वाभ्या᳚म् । माꣳ॒॒सम् । द्वाभ्या᳚म् । अस्थि॑ । द्वाभ्या᳚म् । म॒ज्जान᳚म् । आ॒त्मद॑क्षिण॒मित्या॒त्म - द॒क्षि॒ण॒म् । वै । स॒त्रम् । आ॒त्मान᳚म् । ए॒व । दक्षि॑णाम् । नी॒त्वा । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । शिखा᳚म् । अनु॑ । प्रेति॑ । व॒प॒न्ते॒ । ऋद्ध्यै᳚ । अथो॒ इति॑ । रघी॑याꣳसः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒या॒म॒ । इति॑ ( ) ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अष्टमे संवत्सरसत्रस्य दीक्षाकाल उक्तः । अथ नवमे दीक्षा उपसदश्चोच्यन्ते । ता उभयीर्विधत्ते - सुवर्गं वा इति ॥ यत्रानुष्ठायिनः स्वर्गं गच्छन्ति... तायै दीक्षाभिरात्मानं स्वेदेहमभीन्धत एव सर्वतो ज्वलयत्येव । उपसद्भिस्तु श्रपयन्ते स्वदेहं पचन्ति । तस्माद्दीक्षा उपसदश्चानुष्ठेया इति विध्युन्नयः । यदि द्वादशाहविकृतित्वेन प्राप्ताः तदाऽपि विकृतिलिङ्गत्वाय स्तुतये वा तदनुवादोऽस्तु ॥
2 अथ त.... ... .र्वन् तासामुभयविधानां द्वादशत्वं प्रकटयति - द्वाभ्यामिति ॥ द्वाभ्यां दिनद्वयानुष्ठेयाभ्यां दीक्षाभ्यामुपमद्भ्यां च स्वकीयं लोम हविरर्थमवद्यन्ति अनन्तरभाविनीभ्यां द्वाभ्यां त्वचमवद्यन्ति । एवं रक्तमांसास्थिमज्जसु योजनीयम् । यदेतत्सत्रं तदेतदात्मदक्षिणं वै सशरीरमेव तत्र दक्षिणा न त्वन्या गवादिरूपा अस्ति । तस्मात् स्वशररिमेव दक्षिणारूपेण नीत्वा स्वर्गं प्राप्नुवन्ति ॥
3 यदुक्तं सूत्रकारेण - सत्रं चेद्वपनकाले सशिखानि वपन्ते इति । तदेतद्विधत्ते - शिखामिति ॥ शिखामनुलक्ष्य प्रकर्षेण वपनं कुर्युः । तच्च मृतत्वग्रूपाणां केशानामुपगमात्समृद्ध्यै भवति । अपि च केशभाररहिता रधीयांसो लघुतरास्सन्तः स्वर्गं प्राप्नुवामेत्यनेनाभिप्रायेण सशिखं वपनं कुर्युः ॥
इति माधवीये वेदार्थप्रकाशे यजुस्सहितायां सप्तमकाण्डे चतुर्थप्रपाठके नवमोनुवाकः ॥