पञ्चशत् 1 #
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्तां । पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड ॥याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥या दे॒वेषु॑ त॒नुव॒मैर॑यन्त॒ यासाꣳ॒॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र - [ ]
पदपाठः (Word-by-word)
म॒यो॒भूरिति॑ मयः - भूः । वातः॑ । अ॒भीति॑ । वा॒तु॒ । उ॒स्राः । ऊर्ज॑स्वतीः । ओष॑धीः । एति॑ । रि॒श॒न्ता॒म् ॥ पीव॑स्वतीः । जी॒वध॑न्या॒ इति॑ जी॒व - ध॒न्याः॒ । पि॒ब॒न्तु॒ । अ॒व॒साय॑ । प॒द्वत॒ इति॑ पत् - वते᳚ । रु॒द्र॒ । मृ॒ड॒ ॥ याः । सरू॑पा॒ इति॒ स - रू॒पाः॒ । विरू॑पा॒ इति॒ वि - रू॒पाः॒ । एक॑रूपा॒ इत्येक॑-रू॒पाः॒ । यासा᳚म् । अ॒ग्निः । इष्ट्या᳚ । नामा॑नि । वेद॑ ॥ याः । अङ्गि॑रसः । तप॑सा । इ॒ह । च॒क्रुः । ताभ्यः॑ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥ याः । दे॒वेषु॑ । त॒नुव᳚म् । ऐर॑यन्त । यासा᳚म् । सोमः॑ । विश्वा᳚ । रू॒पाणि॑ । वेद॑ ॥ ताः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । पय॑सा । पिन्व॑मानाः । प्र॒जाव॑ती॒रिति॑ प्र॒जा - व॒तीः॒ । इ॒न्द्र॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 तत्रैव दश गव्यानि जुहोति - मयोभूरित्यादिना ॥ त्रैष्टुभः सर्वोनुवाकः । इह धृतिरित्यादि यजुः । 'महीमूषु' 'सुत्रामाणं'31 इति द्वयोस्त्रिष्टुभोः प्रतीकग्रहणम् । तत्र प्रथमं - मयोभूरित्यादि । हे रुद्र त्वत्प्रसादान्मयोभूः सुखस्य भावयिता । 'बडुलमन्यत्रापिं' इति णिलुक् । ईदृशो वातः उस्राः गाः अभिवातु आभिमुख्येन सेवताम् । ऊर्जस्वतीः रसवतीः ओषधीस्तृणादीनि आरिशन्तां आस्वादयन्तु । रिशतिरभ्यवहारे । किं च - पीवस्वतीः पीवस्वत्यः स्थौल्यवत्यः अकृशाः । पीव स्थौल्ये, असुनि 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । जीवधन्याः जीववत्साः क्षीरादिधनमर्हन्तीति धन्या वत्साः ईदृश्यस्सत्यः पिबन्तु । किं स्वादूदकमिति सामर्थ्याद्गम्यते । यद्वा - याभिः जीवधन्या भवन्ति ता अपः पिबन्तु । किञ्च - अवसाय अवितव्याय । अवतेरौणादिकोऽसच्प्रत्ययः । पद्वते पादवते सञ्जातगमनसामर्थ्याय अभीताय मृड सुखय । जातावेकवचनम्, 'क्रियाग्रहणं कर्तव्यम्' इति संप्रदानत्वम् । देवस्य पशूनां पतित्वात् तमेवासां रक्षणं प्रार्थयते ॥
2 अथ द्वितीया - यास्सरूपा इति ॥ सरूपाः समानसंस्थानाः विरूपाः विविधशुक्लादिवर्णाः एकरूपाः एकजात्यवच्छिन्ना यासां नामानि नमनप्रकारान् यागं प्रति साधनभावात् आज्यपयोदधिलक्षणान् अग्निरिष्ट्या यागेन वेद जानाति यद्यस्याः विहितं तत्तदेवान्या देवता जानाति अग्निस्तु सर्वाणीति । यां च अङ्गिरसः तपसा इत्थंभूताः तपस्विनश्चक्रुः (कतरव्यत्ययः) । यद्वा - तपसा चक्रुः तपसा शोधितवत्यः । इह ताभ्यः गोभ्यः हे पर्जन्य महि महत् शर्म सुखं यच्छ देहि ॥
3 अथ तृतीया - या देवेष्विति ॥ या देवेषु देवनिमित्तम् । निमित्तात्सप्तमी । तनुवं आत्मशरीरं ऐरयन्त गमितवत्यः देवयागार्थमेव दत्तवत्यः । यासां रूपाणि दध्यादिलक्षणानि विश्वान्यपि सोमो वेद जानाति ताः पयसा सर्वाः प्रजाः पिन्वमानाः तर्पयन्ति । पिवि प्रीणने । प्रजावतीः शोभनपुत्रपौत्रादिमतीः हे इन्द्र गोष्ठे व्रजे अस्मभ्यं अस्मदर्थं रिरीहि समागमय । रि गतौ । व्यत्ययेन परस्मैपदम्, शपश्श्लुः ॥
4 चतुर्थी - प्रजापतिरिति ॥ मह्यं मदर्थं प्रजापतिरेता गाः रराणः ददत् उत्पादयन् मह्यं च ददत् । रातेर्व्यत्यएनात्मनेपदम्, शपश्श्लुः, 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । विश्वैः दैवैः पितृभिश्च संविदानः ऐकमत्यं गतः । 'समोगमृच्छि' इत्यात्मनेपदम् । शिवाः कल्याणस्वभावाः सतीः सततं भवतीः नः अस्माकं सम्बन्धिनं गोष्ठं गवां स्थानं उपाकः उपाकरोतु उपागमयतु । करोतु वा । करोतेः छान्दसो लुङ्, 'मन्त्रे घस' इति च्लेर्लुक् । लिङि वा शपो लुक् । वयं च तासां गवां प्रजया पुत्रर्पोत्रादिकया संसदेम सङ्गसीमहि । सीदतेराशिषि लिङि 'लिङ्याशिष्यङ्' इत्यङ्, 'छन्दस्युभयथा' इति सार्वधातुकत्वात् सलोपः ॥
5 इह धृतिस्स्वाहेत्यादयो धृतयो 'विभूर्मात्रा' इत्यत्र व्याख्याताः ॥
6 'महीमूषु मातरं' 'सुत्रामाणं पृथिवीम्' इति च 'वेश्वानरो नः' इत्यत्र व्याख्याते । महीमेव सुव्रतानां मातृस्थानीयां ऋतस्य यज्ञस्य सत्रस्य वा पालयित्रीः रक्षाणार्थमाह्वयामः प्रवृद्धबलामजरन्तीं उरुगमनां शोभनां सुखहेतुं अखण्डितां शोभनप्रणयामिति प्रथमा ॥
7 सुत्रामणं पृथिवीं विस्तीर्णां द्यामपापां सुशर्माणमदितिं दैवीं नावं नौस्थानीयां शोभनतरणामनेहसमनवद्यां 'अच्छिद्रां अविनाशार्थं आरूढा भूयास्मेति द्वितीया ॥
इति सप्तमे चतुर्थे सप्तदशोनुवाकः ॥