अनुवाकः 2 TS 7.4.2

(A2)

(म॒नु॒ष्य॑स्य - मध्य॒तः - प॒शव॒ - स्ताभ्या॑मे॒व - सं॑ॅवथ्स॒र - श्चतु॑र्विꣳशतिश्च)

अनुवाकः 2 - Complete Audio

TS 7.4.2 - स्वरानुगामी

0:00 0:00
PS1.1 यथा॒ वै म॑नुष्या॑ ए॒वं
PS1.2 दे॒वा अग्र॑ आस॒न् ते॑ऽकामय॒न्ताव॑र्तिं
PS1.3 पा॒प्मानं॑ मृ॒त्युम॑प॒हत्य॒ दैवीꣳ॑ सꣳ॒॒सदं॑
PS1.4 गच्छे॒मेति॒ त ए॒तं च॑तुर्विꣳशतिरा॒त्र-म॑पश्य॒न्
PS1.5 तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै
PS1.6 तेऽव॑र्तिं पा॒प्मानं॑ मृ॒त्युम॑प॒हत्य॒ दैवीꣳ॑
PS1.7 सꣳ॒॒सद॑मगच्छ॒न॒. य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्विꣳशतिरा॒त्र-मास॒तेऽव॑र्तिमे॒व
PS1.8 पा॒प्मान॑-मप॒हत्य॒ श्रियं॑ गच्छन्ति॒ श्रीर्.हि
PS1.9 म॑नु॒ष्य॑स्य॒ - [ ]
PS2.1 दैवी॑ सꣳ॒॒सज्ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑
PS2.2 लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒
PS2.3 षड् वा ऋ॒तवः॑ संॅवथ्स॒रस्तं
PS2.4 मासा॑ अर्द्धमा॒सा ऋ॒तवः॑ प्र॒विश्य॒
PS2.5 दैवीꣳ॑ सꣳ॒॒सद॑मगच्छ॒न॒. य ए॒वं
PS2.6 ॅवि॒द्वाꣳस॑-श्चतुर्विꣳशतिरा॒त्रमास॑ते संॅवथ्स॒रमे॒व प्र॒विश्य॒ वस्य॑सीꣳ
PS2.7 सꣳ॒॒सदं॑ गच्छन्ति॒ त्रय॑स्त्रयस्त्रिꣳ॒॒शा अ॒वस्ता᳚द्-भवन्ति॒
PS2.8 त्रय॑स्त्रयस्त्रिꣳ॒॒शाः प॒रस्ता᳚त् त्रयस्त्रिꣳ॒॒शैरे॒वोभ॒यतो ऽव॑र्तिं
PS2.9 पा॒प्मान॑मप॒हत्य॒ दैवीꣳ॑ सꣳ॒॒सदं॑ मद्ध्य॒तो
PS2.10 - [ ]
PS3.1 ग॑च्छन्ति पृ॒ष्ठानि॒ हि दैवी॑
PS3.2 सꣳ॒॒सज्जा॒मि वा ए॒तत् कु॑र्वन्ति॒
PS3.3 यत् त्रय॑स्त्रयस्त्रिꣳ॒॒शा अ॒न्वञ्चो॒ मद्ध्येऽनि॑रुक्तो
PS3.4 भवति॒ तेनाजा᳚म्यू॒र्द्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒र्द्ध्वाः
PS3.5 छ॑न्दो॒मा उ॒भाभ्याꣳ॑ रू॒पाभ्याꣳ॑ सुव॒र्गं
PS3.6 ॅलो॒कं ॅय॒न्त्यस॑त्रं॒ ॅवा ए॒तद्-यद॑छन्दो॒मं
PS3.7 ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं
PS3.8 दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते
PS3.9 प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑
PS3.10 प॒शवः॑- [ ]
PS4.1 छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒
PS4.2 प्रति॑ तिष्ठन्ति॒ त्रय॑स्त्रयस्त्रिꣳ॒॒शा अ॒वस्ता᳚द्-भवन्ति॒
PS4.3 त्रय॑स्त्रयस्त्रिꣳ॒॒शाः प॒रस्ता॒न्मद्ध्ये॑ पृ॒ष्ठान्युरो॒ वै
PS4.4 त्र॑यस्त्रिꣳ॒॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑ ए॒व
PS4.5 तद्-यज॑मानाः॒ शर्म॑ नह्य॒न्तेऽना᳚र्त्यै बृहद्-रथन्त॒राभ्यां᳚
PS4.6 ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व
PS4.7 य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते
PS4.8 वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व
PS4.9 - [ ]
PS5.1 सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒
PS5.2 वा ए॒ते सु॑व॒र्गं ॅलो॒कम॒भ्यारो॑हन्ति॒
PS5.3 ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ्
PS5.4 ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒
PS5.5 प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर॑ ऋ॒द्ध्वोत् ति॑ष्ठन्ति
PS5.6 त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑नाꣳ॒॒
PS5.7 संप॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यं
PS5.8 ॅवाव स क्षयो॒ऽस्मादे॒व तेन॒
PS5.9 क्षया॒न्न य॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒
PS5.10 चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः ( )
PS5.11 सं॑ॅवथ्स॒रः सु॑व॒र्गो लो॒कः सं॑ॅवथ्स॒र
PS5.12 ए॒व सु॑व॒र्गे लो॒के प्रति॑
PS5.13 तिष्ठ॒न्त्यथो॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री
PS5.14 ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धते
PS5.15 ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.4.2.1 TS 7.4.2.1
यथा॒ वै म॑नुष्या॑ ए॒वं दे॒वा अग्र॑ आस॒न् ते॑ऽकामय॒न्ताव॑र्तिं पा॒प्मानं॑ मृ॒त्युम॑प॒हत्य॒ दैवीꣳ॑ सꣳ॒॒सदं॑ गच्छे॒मेति॒ त ए॒तं च॑तुर्विꣳशतिरा॒त्र-म॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै तेऽव॑र्तिं पा॒प्मानं॑ मृ॒त्युम॑प॒हत्य॒ दैवीꣳ॑ सꣳ॒॒सद॑मगच्छ॒न॒. य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्विꣳशतिरा॒त्र-मास॒तेऽव॑र्तिमे॒व पा॒प्मान॑-मप॒हत्य॒ श्रियं॑ गच्छन्ति॒ श्रीर्.हि म॑नु॒ष्य॑स्य॒ - [ ]
पदपाठः (Word-by-word)
यथा᳚ । वै । म॒नु॒ष्याः᳚ । ए॒वम् । दे॒वाः । अग्रे᳚ । आ॒स॒न्न् । ते । अ॒का॒म॒य॒न्त॒ । अव॑र्तिम् । पा॒प्मान᳚म् । मृ॒त्युम् । अ॒प॒हत्येत्य॑प-हत्य॑ । दैवी᳚म् । सꣳ॒॒सद॒मिति॑ सं - सद᳚म् । ग॒च्छे॒म॒ । इति॑ । ते । ए॒तम् । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्रमिति॑ चतुर्विꣳशति - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । अव॑र्तिम् । पा॒प्मान᳚म् । मृ॒त्युम् । अ॒प॒हत्येत्य॑प- हत्य॑ । दैवी᳚म् । सꣳ॒॒सद॒मिति॑ सं - सद᳚म् । अ॒ग॒च्छ॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्रमिति॑ चतुर्विꣳशति - रा॒त्रम् । आस॑ते । अव॑र्तिम् । ए॒व । पा॒प्मान᳚म् । अ॒प॒हत्येत्य॑प- हत्य॑ । श्रिय᳚म् । ग॒च्छ॒न्ति॒ । श्रीः । हि । म॒नु॒ष्य॑स्य ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ संसदाख्यो द्वितीयश्चतुर्विंशतिरात्रो विधीयते - यथा वा इत्यादि ॥ यथा मनुष्या जरामृत्युदारिद्र्यपापयुक्ताः एवं धर्माणः पूर्वमेव देवा अप्यासन् । ते देवा अकामयन्त अवर्तिं दारिद्र्यं पाप्मानं मृत्युं चापहत्य दैवीं देवसम्बन्धिनीं संसदं संसीदन्ति देवा यत्र तत्स्थानं गच्छेमेति । 'देवाद्यञञौ' इत्यञ् । त एतमित्यादि । गतम् । श्रीर्हि दैवसंसत् दैवसंसदा सदृशत्वात् ॥
2 ज्योतिरतिरात्र इत्यादि ॥ अत्रेयमहःकॢप्तिः - अतिरात्रश्चतुर्विंशः उक्थ्य आरम्भणीयः त्रिवृद्वा पृष्ठ्यस्तोमः षडहः त्रयस्त्रिंशमहरनिरुक्तं त्रयस्त्रिंशं निरुक्तं त्रिणवं द्वे एकविंशे त्रिणवं त्रयस्त्रिंशमहः निरुक्तं त्रयस्त्रिंशमनिरुक्तं पृष्ठ्यस्तोमष्षडहः प्रत्यङ् त्रिवृदहरनिरुक्तं ज्योतिष्टोमो वैश्नानरोति रात्रः इति । इयमिह प्रतिपाद्यते । ज्योतिरतिरात्रः प्रथममहर्भवति स्वर्गस्यानुक्रमेण ख्यात्यै प्रकाशाय तद्भवति । पृष्ठ्य इत्यादि । षडहविधिः । षडृत्वात्मकसंवत्सरं प्रविश्य मासा अर्धमासा ऋतवश्च दैवीं संसदमगच्छन् तस्मादेवं विदित्वा चतुर्विंशतिरात्रमासीनाः संवत्सरमेव प्रविश्य वस्यसीं वरिष्ठां संसदं श्लाघ्यां श्रियं गच्छन्ति । वसुमच्छब्दादीसयसुनि 'विन्मतोर्लुक्' इति मतुब्लोपे कृते प्रत्ययाद्यक्षरलोपश्छान्दसः ॥
2 त्रयस्त्रयस्त्रिंशा अवस्तादिति ॥ मध्यमषडहारम्भे त्रयस्त्रिंशा भवन्ति । कथं? प्रथमस्य षडहस्य षष्ठमहः एकस्त्रयस्त्रिंशः, त्रिवृदादित्र- यस्त्रिंशान्तत्वात् पृष्ठानाम् । ततष्षडहयोर्मध्ये निरुक्तो द्वितीय- स्त्रयस्त्रिंशः । ततो द्वितीयस्य षडहस्य आद्यस्त्रयस्त्रिंशः तृतीयः । त्रयस्त्रिंशत्रिणवैकविंशानां षडहावरार्ध्यानां क्रमात् व्युत्क्रमजन्यत्वात् मध्यमषडहस्यैव त्रयस्त्रिंशाः परस्तान्मध्यमषडहावसानेऽपि भवन्ति । कथं? उक्तेन न्यायेन मध्यमस्य षडहस्य षष्ठमहरेकस्त्रयस्त्रिंशः; ततष्षडहयोर्मध्ये अनिरुक्तो द्वितीयस्त्रयस्त्रिंशः; तत उत्तरस्य षडहस्य प्रतीचीनस्य आद्यमहस्र्तृतीयः त्रयस्त्रिंश इति । एवमवस्तात् परस्ताच्च त्रयस्त्रिंशैरेव स्थितैः तद्दिव्यसङ्ख्यानैः अवर्तिं च पाप्मानं चापहत्य दैवीं संसदं मध्यतोवस्थितां गच्छन्ति । का पुनस्सेत्याह- पृष्ठानि हीत्यादि ॥
4 जामि वा इत्यादि ॥ आलस्यजननमिदं क्रियते । तस्मान्मध्ये त्रयाणां मध्यमस्त्रिंशोऽनिरुक्तो भवति अव्यक्तनामा भवति । तेनाजामि भवति । मध्यमष्षडहो निरुक्त इत्येके । ऊर्ध्वानि रथन्तरादिक्रमेण वर्तन्ते ॥
5 ऊर्ध्वाश्छन्दोमा इति ॥ तान्येवाहानि चतुर्विंशतिक्रमेण वर्तन्ते । उभाभ्यां रूपाभ्यामिति । एतस्य षडहस्य पृष्ठ्यच्छन्दोमात्मके द्वे रूपे संपाद्ये इति दर्शितम् । तद्धर्मानुगमात् भाक्तो व्यपदेश इत्युक्तं भवति । यथोक्तं आचार्येण - 'अथेदं संसदामयनं छन्दोमं भवति विज्ञायन्ते खल्वस्य छन्दोसभक्तयश्चतुर्विंशं चतुश्चत्वारिंशं अष्टाचत्वारिशम्' इति । अत्रैव जानीयात् आद्ये त्रिवृत आयतने त्रयस्त्रिंशोग्रिष्टोमश्चतुर्विंशाः पवमानः, द्वितीये पञ्चदशस्यायतने त्रिणवः अष्टाविंशाः पवमानाः, तृतीये सप्तदशस्यायतने एकविंशः द्वाविंशाः पवमानाः, चतुर्थेऽस्मिन् आयतने एकविंशः षट्त्रिंशाः पवमानाः, पञ्चमेऽस्मिन्नायतने त्रिणवश्चत्वारिंशाः पवमानाः, पष्ठे स्व आयतने त्रयस्त्रिंशः चतुश्चत्वारिंशाः पवमानाः, ततः त्रयस्त्रिंशः अष्टाचत्वारिशाः पवमानाः इति ॥
6 अथैवं संपाद्यते हेतुमाह - असत्रमित्यादि ॥ गतम् । पृष्ठैरिति । पृष्ठरूपेण ॥
7 त्रयस्त्रयस्त्रिंशा इत्यादि ॥
8 अयं मनुष्यलोकः खलु स क्षयः तदग्निष्टोमाख्यमायतनम् । तस्मात्तेनाग्निष्टोमेन अस्मात् क्षयात् लाकान्न यन्ति न गच्छन्ति न नश्यन्तीत्यर्थः । 'क्षयो निवासे' इत्याद्युतात्तत्वम् ॥
9 चतुर्विंशतिरात्र इत्यादित ॥ गतम् । अतिरात्राभ्यामभितो ब्रह्मवर्चसस्य परिग्रहः ॥
इति सप्तमे चतुर्थे द्वितीयोनुवाकः ॥
पञ्चशत् 2 #
TS 7.4.2.2 TS 7.4.2.2
दैवी॑ सꣳ॒॒सज्ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड् वा ऋ॒तवः॑ संॅवथ्स॒रस्तं मासा॑ अर्द्धमा॒सा ऋ॒तवः॑ प्र॒विश्य॒ दैवीꣳ॑ सꣳ॒॒सद॑मगच्छ॒न॒. य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्विꣳशतिरा॒त्रमास॑ते संॅवथ्स॒रमे॒व प्र॒विश्य॒ वस्य॑सीꣳ सꣳ॒॒सदं॑ गच्छन्ति॒ त्रय॑स्त्रयस्त्रिꣳ॒॒शा अ॒वस्ता᳚द्-भवन्ति॒ त्रय॑स्त्रयस्त्रिꣳ॒॒शाः प॒रस्ता᳚त् त्रयस्त्रिꣳ॒॒शैरे॒वोभ॒यतो ऽव॑र्तिं पा॒प्मान॑मप॒हत्य॒ दैवीꣳ॑ सꣳ॒॒सदं॑ मद्ध्य॒तो - [ ]
पदपाठः (Word-by-word)
दैवी᳚ । सꣳ॒॒सदिति॑ सं - सत् । ज्योतिः॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । भ॒व॒ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ -ख्या॒त्यै॒ । पृष्ठ्यः॑ । ष॒ड॒ह इति॑ षट् - अ॒हः । भ॒व॒ति॒ । षट् । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । तम् । मासाः᳚ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । ऋ॒तवः॑ । प्र॒विश्येति॑ प्र - विश्य॑ । दैवी᳚म् । सꣳ॒॒सद॒मिति॑ सं - सद᳚म् । अ॒ग॒च्छ॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्रमिति॑ चतुर्विꣳशति - रा॒त्रम् । आस॑ते । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ए॒व । प्र॒विश्येति॑ प्र - विश्य॑ । वस्य॑सीम् । सꣳ॒॒सद॒मिति॑ सं - सद᳚म् । ग॒च्छ॒न्ति॒ । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः - त्रिꣳ॒॒शाः । अ॒वस्ता᳚त् । भ॒व॒न्ति॒ । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रय - त्रिꣳ॒॒शाः । प॒रस्ता᳚त् । त्र॒य॒स्त्रिꣳ॒॒शैरिति॑ त्रयः - त्रिꣳ॒॒शैः । ए॒व । उ॒भ॒यतः॑ । अव॑र्तिम् । पा॒प्मान᳚म् । अ॒प॒हत्येत्य॑प - हत्य॑ । दैवी᳚म् । सꣳ॒॒सद॒मिति॑ सं - सद᳚म् । म॒द्ध्य॒तः ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.4.2.3 TS 7.4.2.3
ग॑च्छन्ति पृ॒ष्ठानि॒ हि दैवी॑ सꣳ॒॒सज्जा॒मि वा ए॒तत् कु॑र्वन्ति॒ यत् त्रय॑स्त्रयस्त्रिꣳ॒॒शा अ॒न्वञ्चो॒ मद्ध्येऽनि॑रुक्तो भवति॒ तेनाजा᳚म्यू॒र्द्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒र्द्ध्वाः छ॑न्दो॒मा उ॒भाभ्याꣳ॑ रू॒पाभ्याꣳ॑ सुव॒र्गं ॅलो॒कं ॅय॒न्त्यस॑त्रं॒ ॅवा ए॒तद्-यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑- [ ]
पदपाठः (Word-by-word)
ग॒च्छ॒न्ति॒ । पृ॒ष्ठानि॑ । हि । दैवी᳚ । सꣳ॒॒सदिति॑ सं - सत् । जा॒मि । वै । ए॒तत् । कु॒र्व॒न्ति॒ । यत् । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः-स्त्रिꣳ॒॒शाः । अ॒न्वञ्चः॑ । मद्ध्ये᳚ । अनि॑रुक्त॒ इत्यनिः॑ - उ॒क्तः॒ । भ॒व॒ति॒ । तेन॑ । अजा॑मि । ऊ॒द्‌र्ध्वानि॑ । पृ॒ष्ठानि॑ । भ॒व॒न्ति॒ । ऊ॒द्‌र्ध्वाः । छ॒न्दो॒मा इति॑ छन्दः - माः । उ॒भाभ्या᳚म् । रू॒पाभ्या᳚म् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । अस॑त्रम् । वै । ए॒तत् । यत् । अ॒छ॒न्दो॒ममित्य॑छन्दः-मम् । यत् । छ॒न्दो॒मा इति॑ छन्दः- माः । भव॑न्ति । तेन॑ । स॒त्रम् । दे॒वताः᳚ । ए॒व । पृ॒ष्ठैः । अवेति॑ । रु॒न्ध॒ते॒ । प॒शून् । छ॒न्दो॒मैरिति॑ छन्दः - मैः । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । प॒शवः॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 7.4.2.4 TS 7.4.2.4
छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒ त्रय॑स्त्रयस्त्रिꣳ॒॒शा अ॒वस्ता᳚द्-भवन्ति॒ त्रय॑स्त्रयस्त्रिꣳ॒॒शाः प॒रस्ता॒न्मद्ध्ये॑ पृ॒ष्ठान्युरो॒ वै त्र॑यस्त्रिꣳ॒॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑ ए॒व तद्-यज॑मानाः॒ शर्म॑ नह्य॒न्तेऽना᳚र्त्यै बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व - [ ]
पदपाठः (Word-by-word)
छ॒न्दो॒मा इति॑ छन्दः - माः । ओज॑सि । ए॒व । वी॒र्ये᳚ । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः - त्रिꣳ॒॒शाः । अ॒वस्ता᳚त् । भ॒व॒न्ति॒ । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः - त्रिꣳ॒॒शाः । प॒रस्ता᳚त् । मद्ध्ये᳚ । पृ॒ष्ठानि॑ । उरः॑ । वै । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः - त्रिꣳ॒॒शाः । आ॒त्मा । पृ॒ष्ठानि॑ । आ॒त्मने᳚ । ए॒व । तत् । यज॑मानाः । शर्म॑ । न॒ह्य॒न्ते॒ । अना᳚र्त्यै । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । य॒न्ती॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 7.4.2.5 TS 7.4.2.5
सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर॑ ऋ॒द्ध्वोत् ति॑ष्ठन्ति त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑नाꣳ॒॒ संप॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यं ॅवाव स क्षयो॒ऽस्मादे॒व तेन॒ क्षया॒न्न य॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒ चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः ( ) सं॑ॅवथ्स॒रः सु॑व॒र्गो लो॒कः सं॑ॅवथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । परा᳚ञ्चः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ये । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । प्र॒त्यङ् । ष॒ड॒ह इति॑ षट् - अ॒हः । भ॒व॒ति॒ । प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । त्रि॒वृत॒ इति॑ त्रि - वृतः॑ । अधीति॑ । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । उपेति॑ । य॒न्ति॒ । स्तोमा॑नाम् । संप॑त्त्या॒ इति॒ सं - प॒त्त्यै॒ । प्र॒भ॒वायेति॑ प्र - भ॒वाय॑ । ज्योतिः॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । भ॒व॒ति॒ । अ॒यम् । वाव । सः । क्षयः॑ । अ॒स्मात् । ए॒व । तेन॑ । क्षया᳚त् । न । य॒न्ति॒ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्र इति॑ चतुर्विꣳशति-रा॒त्रः । भ॒व॒ति॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑-विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः ( ) । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रे । ए॒व । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । चतु॑र्विꣳशत्यक्ष॒रेति॒ चत॑र्विꣳशति- अ॒क्ष॒रा॒ । गा॒य॒त्री । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । गा॒य॒त्रि॒या । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्ध॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒स्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 74