पञ्चशत् 1 #
सं॒ॅव॒थ्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒कायां᳚ दीक्षेरन्ने॒षा वै सं॑ॅवथ्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒कैतस्यां॒ ॅवा ए॒ष ए॒ताꣳ रात्रिं॑ ॅवसति सा॒क्षादे॒व सं॑ॅवथ्स॒रमा॒रभ्य॑ दीक्षन्त॒ आर्तं॒ ॅवा ए॒ते सं॑ॅवथ्स॒रस्या॒भि दी᳚क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्ते ऽन्त॑नामानावृ॒तू भ॑वतो॒ व्य॑स्तं॒ ॅवा ए॒ते सं॑ॅवथ्स॒रस्या॒ऽभि दी᳚क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतः फल्गुनी पूर्णमा॒से दी᳚क्षेर॒न् मुखं॒ ॅवा ए॒तथ् - [ ]
पदपाठः (Word-by-word)
सं॒ॅव॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । दी॒क्षि॒ष्यमा॑णाः । ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् । दी॒क्षे॒र॒न्न् । ए॒षा । वै । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । पत्नी᳚ । यत् । ए॒का॒ष्ट॒केत्ये॑क-अ॒ष्ट॒का । ए॒तस्या᳚म् । वै । ए॒षः । ए॒ताम् । रात्रि᳚म् । व॒स॒ति॒ । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । आ॒रभ्येत्या᳚ - रभ्य॑ । दी॒क्ष॒न्ते॒ । आर्त᳚म् । वै । ए॒ते । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । अ॒भीति॑ । दी॒क्ष॒न्ते॒ । ये । ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् । दीक्ष॑न्ते । अन्त॑नामाना॒वित्यन्त॑- ना॒मा॒नौ॒ । ऋ॒तू इति॑ । भ॒व॒तः॒ । व्य॑स्त॒मिति॒ वि-अ॒स्त॒म् । वै । ए॒ते । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । अ॒भीति॑ । दी॒क्ष॒न्ते॒ । ये । ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् । दीक्ष॑न्ते । अन्त॑नामाना॒वित्यन्त॑- ना॒मा॒नौ॒ । ऋ॒तू इति॑ । भ॒व॒तः॒ । फ॒ल्गु॒नी॒पू॒र्ण॒मा॒स इति॑ फल्गुनी- पू॒र्ण॒मा॒से । दी॒क्षे॒र॒न्न् । मुख᳚म् । वै । ए॒तत् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इत उत्तरं गवामयनम् - 'गावो वा एतत्सत्रमासत' इत्यादि च वक्ष्यति । तत्र दीक्षारम्भकालं विदधाति - संवत्सरायेत्यादि ॥ संवत्सरकालसाध्यं गवामयनं संवत्सरशब्देनोच्यते । प्रकृतिश्चेयं सांवत्सरिकाणां आदित्यानामयनादीनां संवत्सरार्थं दीक्षिष्यमाणा दीक्षितुकामा एकाष्टकायां दीक्षेरन् । माघकृष्णाष्टमी एकाष्टका । यदाहुः - 'या माध्याः पौर्णमास्या उपरिष्टाद्द्व्यष्टका तस्यामष्टमी ज्येष्ठया संपद्यते तामेकाष्टकेत्याचक्षते' इति । एकाष्टका प्रधानाष्टका । 'पूर्वकालैक' इति समासः । 'अष्टका पितृदैवत्ये' इतीत्वाभावः । तत्कालसाध्यं च कर्म दर्शादिवदुपचारेणोच्यते । तत्र कालवृत्तेः कर्मण्युपचारः, अत्र तु कर्मवृत्तेरुपचार इति । एषा वा इति । एषा एकाष्टका कर्मात्मिकेति संवत्सरस्य कर्मात्मनः पत्नी पत्नीस्थानीया संवत्सरभाविनां कर्मणां पालयित्री एषेत्युक्तम् । केत्याह - यदेकाष्टकेति । कः पुनरस्या विशेष इत्याह - एतस्यामित्यादि । एतस्यामेकाष्टकायां कर्मात्मिकायां एष संवत्सरो वसति एतां रात्रिं कालात्मिकामेकाष्टकाम् । 'अत्यन्तसंयोगे द्वितीया' । एतस्यां रात्रावित्यर्थः । तस्मात् साक्षात् समस्तमेव संवत्सरमारभ्य परिगृह्य दीक्षन्ते ॥
2 एतद्दूषयति - अर्तं वा इत्यादि ॥ संवत्सरसंबद्धं यदिदं आर्तियुक्तं स्थानं तदभिलक्ष्य दीक्षन्ते एते । 'अभिरभागे' हति लक्षणे अभेः कर्मप्रवचनीयत्वम् । कस्मादित्याह - यस्मादेकाष्टकायां दक्षिन्त इति । हेतुगर्भमिदम् । तदपि कुत इत्याह - अन्तनामानाविति । ऋत्ववयवे मासे ऋतुशब्दः, यथा 'मधुश्च माधवश्च वासन्तिकावृतू' इति । एतौ हि तैषमाघौ मासौ संवत्सरस्यान्तनामानौ अन्तिमाख्यौ यत्र सर्वेऽपि स्थावरजङ्गमाः शीतेन पीड्यन्ते । तस्मादेतावार्तिस्थानमिति । अन्य आहुः - अन्तो विनाशः तत्कारिणावेतौ मासौ हिमेन प्रजानामिति । नैरुक्ता आहुः - अन्तशब्देन प्राणा उच्यन्ते 'यदेदन्ता अददृंहन्त पूर्वे' इति । अननदन्ताः प्राणिनः । औणादिकस्तः । तेषां नामयितारो नाशयितारौ शीतपीडयेति अन्तनामानाविति । 'नामन्' इति निहन्यते । अनयोः पक्षयोः दासीभारादिर्द्रष्टव्यः । एवं प्राणिस्वभावाद्यजमाना अपि पीड्येरन्निति ॥
3 अथ दोषान्तरमप्याह - व्यस्तमित्यादि ॥ व्यस्तं विक्षिप्तं प्रदेशमपि एते दीक्षन्ते । कस्मादित्याह - यस्मादेकाष्टकायां दीक्षन्ते इति हेतुत्वेन योज्यम् । तदपि कुत इत्याह - अन्तनामानाविति । अन्तावेतौ संवत्सरस्य मासौ तत्र दीक्षन्ते । स च संवत्सरस्समाप्तः संवत्सरान्ते यज्ञ इति विक्षिप्तमेतत् भवति संवत्सराख्यं कर्म, संवत्सरस्य विक्षिप्तत्वात् । व्यस्तमिति । गतिस्वरे कृते 'उदात्तस्वरितयोर्यणः स्वरितः' इति धात्वकारस्स्वर्यते ॥
4 एवं दूषयित्वा पक्षान्तरं परिगृह्णाति - फल्गुनीपूर्णमास इत्यादि ॥ फल्गुन्या युक्तः पूर्णमासः फल्गुनीपूर्णमासः । मुखं वा इति । अत्र केचिदाहुः - फाल्गुनादिः संवत्सर इति । तन्मतं मुखत एव संवत्सरं परिगृह्य दीक्षा कृता भवति । आद्यादिभ्यस्तसिः ॥
5 अथैनमपि पक्षं दूषयितुमाह - तस्यैकैवेत्यादि ॥ तस्य एक पक्षस्य । यद्वा - तस्य फल्गुनीपूर्णमासे दीक्षित्वा क्रियमाणस्य संवत्सरयज्ञस्य एकैव निर्या निकृष्टा प्राप्तिः दोष इति यावत् । 'आतश्चोपसर्गे' इत्यङ् । का पुनस्सेत्याह - यदिति । संगता मेघाः अस्मिन्निति संमेघो वर्षाः संमेघा एव सांमेध्यम् । चतुर्वर्णादित्वात् ष्यञ् स्वार्थे । तत्र विषूवान् संपद्यते अहःक्रमेण संपतेत् । तत्र एकाशीतितममहरेकविंशोग्निष्टोमो विषूवान् । विष्वञ्चि नाना गच्छतीति अहानि पुरस्ताच्चास्येति विषूवान् । 'अन्येषामपि दृश्यते' इति दीर्घत्वम् । 'ह्रस्वनुड्भ्याम्' इति मतुऽप उदात्तत्वम् । अस्मिन्पक्षे एष दोषः, तथा हि - तत्रादित्यं दृष्ट्वा यत्कर्तव्यं तन्न भवेत् । अतः पक्षान्तरं परिगृह्णाति - चित्रापूर्णर्णमास इत्यादि । गतम् । चैत्रादिस्संवत्सर इति येषां मतं तदिदानीमुच्यते न काचन निर्या न कश्चित् दोषः ॥
6 अधुना प्रथममेव पक्षं परिगृह्याह - चतुरह इत्याद ॥ माघ्याः पौर्णमास्याः पुरस्ताच्चतुरहे दीक्षमाणानामेकस्तावदयं गुणः । एकाष्टकायां त्वछम्बट्कारः । किंच तेषां पूर्वपक्षे सुत्या संपद्यते । 'संज्ञायां समज' इति क्विपि उदात्त इति हि तत्रानुवर्तयन्ति । सर्वेऽपि मासाः पर्वूपक्षमभिसंपद्यन्ते । पूर्वपक्ष एवारभ्यन्ते । पूर्वपक्षे एव च संतिष्ठन्ते । ते च यजमानाः पूर्वपक्ष एवोत्तिष्ठन्ति । तांश्चोत्तिष्ठतः सत्रिण ओषधयो वनस्पतय अनूत्तिष्ठन्ति समृद्धा जायन्ते । ततस्तान् सत्रिणः कल्याणी कीर्तिः पुण्या समृद्धिरनूत्तिष्ठति । अधुना तस्याः कीर्तेः स्वरूपं दर्शयति - अरात्सुरिति । अहो बुद्धिमन्तः सम्पन्ना इमे यजमाना इति । तदनु च तत्समृद्ध्या सर्वेऽपि स्थावरजङ्गमा राध्नुवन्ति पुष्ट्यादिद्वारेण समृद्धा भवन्तीति ॥
इति सप्तमे चतर्थे अष्टमोनुवाकः ॥