अनुवाकः 15 TS 7.4.15

(A15)

(वि॒वि॒द॒द् - द्वे च॑)

अनुवाकः 15 - Complete Audio

TS 7.4.15 - स्वरानुगामी

0:00 0:00
PS1.1 यो अर्व॑न्तं॒ जिघाꣳ॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः
PS1.2 प॒रो मर्तः॑ प॒रः श्वा
PS1.3 अ॒हं च॒ त्वं च॑
PS1.4 वृत्रह॒न्थ्सं ब॑भूव स॒निभ्य॒ आ
PS1.5 अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर
PS1.6 मꣳसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑
PS1.7 अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न
PS1.8 ते॑ विव्यङ्महि॒मानꣳ॒॒ रजाꣳ॑सि
PS1.9 स्वेना॒ हि वृ॒त्रꣳ शव॑सा
PS1.10 ज॒घन्थ॒ न शत्रु॒रन्तं॑ ॅविविदद्
PS1.11 ( ) यु॒धा ते᳚

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.4.15.1 TS 7.4.15.1
यो अर्व॑न्तं॒ जिघाꣳ॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः ॥ प॒रो मर्तः॑ प॒रः श्वा ॥अ॒हं च॒ त्वं च॑ वृत्रह॒न्थ्सं ब॑भूव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मꣳसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानꣳ॒॒ रजाꣳ॑सि । स्वेना॒ हि वृ॒त्रꣳ शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ ॅविविदद् ( ) यु॒धा ते᳚ ॥
पदपाठः (Word-by-word)
यः । अर्व॑न्तम् । जिघाꣳ॑सति । तम् । अ॒भीति॑ । अ॒मी॒ति॒ । वरु॑णः ॥ प॒रः । मर्तः॑ । प॒रः । श्वा ॥ अ॒हम् । च॒ । त्वम् । च॒ । वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् । समिति॑ । ब॒भू॒व॒ । स॒निभ्य॒ इति॑ स॒नि - भ्यः॒ । आ ॥ अ॒रा॒ती॒वा । चि॒त् । अ॒द्रि॒व॒ इत्य॑द्रि - वः॒ । अन्विति॑ । नौ॒ । शू॒र॒ । मꣳ॒॒स॒तै॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥ अ॒भीति॑ । क्रत्वा᳚ । इ॒न्द्र॒ । भूः॒ । अध॑ । ज्मन्न् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान᳚म् । रजाꣳ॑सि ॥ स्वेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्थ॑ । न । शत्रुः॑ । अन्त᳚म् । वि॒वि॒द॒त् ( ) । यु॒धा । ते॒ ॥
पदसंख्या: 52
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 श्वानं हन्यमानमनुमन्त्रयते - यो अर्वन्तमिति द्विपदया गायत्र्या ॥ यः श्वा अर्वन्तमश्वं जिघांसति हन्तुमिच्छति तं वरुणः अभ्यमीति आभिमूख्येन नाशयतु । अमतेर्लेटि शपो लुकि 'तुरुस्तु शम्यमः' इतीडागमः ॥
2 तं हतं अश्वस्याधस्पदमुपास्यति - पर इत्येकपदया गायत्र्या ॥ योऽश्वस्य हन्ता मर्तः मर्त्यः स परोस्तु परस्तादस्तु श्वा च परस्तादस्तु इतोन्यं हिनस्तु । परशब्दात्परस्यास्तातेश्छान्दसोसिप्रत्ययः । तेनान्तोदात्तत्वम् ॥
3 ब्रह्मा यजमानस्य हस्तं गृह्णाति - अहं चेति पञ्चपदया पङ्क्त्या ॥ हे वृत्रहन्! पाप्मनां हन्तः यजमानः अहं च त्वं च संबभूव, वचनव्यत्ययः संबभूविव । छान्दसो लिट् । सम्भभूव वा सर्वार्थेषु संसृज्य वर्तावहै सनिभ्यः सन्यर्थं सर्वे लाभाः संपद्यन्तामिति । आकारो मर्यादायाम् । हे अद्रिवः! अद्रिमान् वज्रवानिन्द्रो हे तदात्मन्! । 'छन्दसीरः' इति मतुपो वत्वं 'मतुवसोः' इति रुत्वम् । । हे शूर! नौ त्वां च मां च अरातीवा चित् अदानवन्तावपि । अरातिरदानम् । ततः 'छन्दसीवनिपौ' इति मत्वर्थीयो वनिप्, 'अन्येषामपि दृश्यते' इति दीर्घत्वं, ततः परस्य द्विवचनस्य डाजादेशः । ईदृशावप्यावां इन्द्रस्य भद्रा गम्भीरा रातयः दानानि अनुमंसतै अनुमन्यतां अस्मद्विषये । यद्यप्यावां अल्पहविर्मात्रप्रदानेन उपक्षीणौ तथाऽप्यावाभ्यां प्रभूतानि धनानि इन्द्रो ददात्विति भावः ॥
4 अभि क्रत्वेत्यादि ॥ स्वेना हीति । सांहितिकं दीर्घत्वं छान्दसम् । शत्रुः ते तव अन्तं विनाशं युधा युद्धेनापि न विविदत् न वेत्तु न लभतां वा । वेत्तेर्विन्दतेर्वा लेटि शपः 'लेटोडाटौ' इत्यडागमः 'नाभ्यस्तस्याचि' इति गुणाभावः ॥
इति सप्तमे चतुर्थे पञ्चदशोनुवाकः ॥