पञ्चशत् 1 #
सि॒ताय॒ स्वाहा ऽसि॑ताय॒ स्वाहा॒ ऽभिहि॑ताय॒ स्वाहा ऽन॑भिहिताय॒ स्वाहा॑ यु॒क्ताय॒ स्वाहा ऽयु॑क्ताय॒ स्वाहा॒ सुयु॑क्ताय॒ स्वाहो -द्यु॑क्ताय॒ स्वाहा॒ विमु॑क्ताय॒ स्वाहा॒ प्रमु॑क्ताय॒ स्वाहा॒ वञ्च॑ते॒ स्वाहा॑ परि॒वञ्च॑ते॒ स्वाहा॑ सं॒ॅवञ्च॑ते॒ स्वाहा॑ ऽनु॒वञ्च॑ते॒ स्वाहो॒द् -वञ्च॑ते॒ स्वाहा॑ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहा॒ तिष्ठ॑ते॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
पदपाठः (Word-by-word)
सि॒ताय॑ । स्वाहा᳚ । असि॑ताय । स्वाहा᳚ । अ॒भिहि॑ता॒येत्य॒भि - हि॒ता॒य॒ । स्वाहा᳚ । अन॑भिहिता॒येत्यन॑भि - हि॒ता॒य॒ । स्वाहा᳚ । यु॒क्ताय॑ । स्वाहा᳚ । अयु॑क्ताय । स्वाहा᳚ । सुयु॑क्ता॒येति॒ सु - यु॒क्ता॒य॒ । स्वाहा᳚ । उद्यु॑क्ता॒येत्युत् - यु॒क्ता॒य॒ । स्वाहा᳚ । विमु॑क्ता॒येति॒ वि - मु॒क्ता॒य॒ । स्वाहा᳚ । प्रमु॑क्ता॒येति॒ प्र - मु॒क्ता॒य॒ । स्वाहा᳚ । वञ्च॑ते । स्वाहा᳚ । प॒रि॒वञ्च॑त॒ इति॑ परि - वञ्च॑ते । स्वाहा᳚ । सं॒ॅवञ्च॑त॒ इति॑ सं - वञ्च॑ते । स्वाहा᳚ । अ॒नु॒वञ्च॑त॒ इत्य॑नु - वञ्च॑ते । स्वाहा᳚ । उ॒द्वञ्च॑त॒ इत्यु॑त्-वञ्च॑ते । स्वाहा᳚ । य॒ते । स्वाहा᳚ । धाव॑ते । स्वाहा᳚ । तिष्ठ॑ते । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 पुनरपि रात्रिहोमेष्वेव प्रमुक्तिहोमाः - सिताय स्वाहेत्यादयो निगदसिद्धा एव ॥
इति भट्टभास्करनिश्रविरचिते ज्ञानयज्ञास्ये यजुर्वेदभाष्ये सप्तमे काण्डे चतुर्थे प्रश्ने द्वाविंशोनुवाकः ॥
……………………………………………………………………………………………………………
प्रश्नः-5