अनुवाकः 11 TS 7.4.11

(A11)

(वि॒राज॑ - मे॒तेन॑ - द्वाद॒शा - वे॒ताव॒द्वा - अ॒ष्टौ च॑)

अनुवाकः 11 - Complete Audio

TS 7.4.11 - स्वरानुगामी

0:00 0:00
PS1.1 ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑
PS1.2 लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑मं
PS1.3 द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑क्ष ए॒व तेन॒
PS1.4 प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमं तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व
PS1.5 तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यं
PS1.6 ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॒-र्यदे॒तान्थ्-स्तोमा॑-नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑
PS1.7 स॒त्रिणः॑ प्रति॒ तिष्ठ॑न्तो यन्ति॒
PS1.8 ते सꣳस्तु॑ता वि॒राज॑ -
PS1.9 [ ]
PS2.1 -म॒भि संप॑द्यन्ते॒ द्वे चर्चा॒वति॑
PS2.2 रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒याऽऽयु॑रू॒नः
PS2.3 सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्-वि॒राडूर्ज॑-मे॒वाव॑
PS2.4 रुन्धते॒ ते न क्षु॒धा
PS2.5 ऽऽर्ति॒मार्च्छ॒न्त्यक्षो॑धुका भवन्ति॒ क्षुथ् स॑बांधा
PS2.6 इव॒ हि स॒त्रिणो᳚ ऽग्निष्टो॒माव॒भितः॑
PS2.7 प्र॒धी तावु॒क्थ्या॑ मद्ध्ये॒ नभ्यं॒
PS2.8 तत् तदे॒तत् प॑रि॒यद्-दे॑वच॒क्रं ॅयदे॒तेन॑
PS2.9 - [ ]
PS3.1 षड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒
PS3.2 ते स्व॒स्ति सम॑श्नुवते षड॒हेन॑
PS3.3 यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व
PS3.4 प्रति॑ तिष्ठन्त्युभ॒यतो᳚ ज्योतिषा यन्त्युभ॒यत॑
PS3.5 ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो
PS3.6 यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒
PS3.7 द्वाद॒शाहा॑नि॒ सं प॑द्यन्ते द्वाद॒शो
PS3.8 वै पुरु॑षो॒ द्वे स॒क्थ्यौ᳚
PS3.9 द्वौ बा॒हू आ॒त्मा च॒
PS3.10 शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ᳚ द्वाद॒शौ
PS3.11 - [ ]
PS4.1 तत् पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रयः॑
PS4.2 षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ सं
PS4.3 प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒
PS4.4 वै पुरु॑षे प्रा॒णास्तत् प्रा॒णाननु॑
PS4.5 प॒र्याव॑र्तन्ते च॒त्वारः॑ षड॒हा भ॑वन्ति॒
PS4.6 तानि॒ चतु॑र्विꣳशति॒रहा॑नि॒ सं प॑द्यन्ते॒
PS4.7 चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रस्तथ् सं॑ॅवथ्स॒रमनु॑ प॒र्याव॑र्त॒न्ते
PS4.8 ऽप्र॑तिष्ठितः संॅवथ्स॒र इति॒ खलु॒
PS4.9 वा आ॑हु॒र्वर्.षी॑यान् प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै
PS4.10 ( ) सं॑ॅवथ्स॒रस्य॒ ब्राह्म॑णं॒
PS4.11 ॅयाव॑न्मा॒सो मा॒सिमा᳚स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 7.4.11.1 TS 7.4.11.1
ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑मं द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमं तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॒-र्यदे॒तान्थ्-स्तोमा॑-नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑ स॒त्रिणः॑ प्रति॒ तिष्ठ॑न्तो यन्ति॒ ते सꣳस्तु॑ता वि॒राज॑ - [ ]
पदपाठः (Word-by-word)
ज्योति॑ष्टोम॒मिति॒ ज्योतिः॑ - स्तो॒म॒म् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । अ॒स्मिन्न् । ए॒व । तेन॑ । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । गोष्टो॑म॒मिति॒ गो - स्तो॒म॒म् । द्वि॒तीय᳚म् । उपेति॑ । य॒न्ति॒ । अ॒न्तरि॑क्षे । ए॒व । तेन॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । आयु॑ष्टोम॒मित्यायुः॑ - स्ता॒म॒म् । तृ॒तीय᳚म् । उपेति॑ । य॒न्ति॒ । अ॒मुष्मिन्न्॑ । ए॒व । तेन॑ । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् । गौः । अ॒सौ । आयुः॑ । यत् । ए॒तान् । स्तोमान्॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । ए॒षु । ए॒व । तत् । लो॒केषु॑ । स॒त्रिणः॑ । प्र॒ति॒तिष्ठ॑न्त॒ इति॑ प्रति - तिष्ठ॑न्तः । य॒न्ति॒ । ते । सꣳस्तु॑ता॒ इति॒ सं - स्तु॒ताः॒ । वि॒राज॒मिति॑ वि - राज᳚म् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 सम्प्रति अभिप्लवष्षडहो विधीयते - ज्योतिष्टोममित्यादि ॥ गतम् । अत्र ज्योतिष्टोम अग्निष्टोमो वेदितव्यः । अग्निष्टोमावभित इति । गवायुश्शब्दयोः स्तोमविशेषस्वभाववृत्तित्वात् बहुव्रीहिद्वयम् ॥
2 इयं वावेत्यादि ॥ प्राथम्यादिना ताच्छब्द्यं स्तुतिर्वा तद्गुणप्रापणार्था । यदेतानित्यादि । विशिष्टस्तोमकानेतान् क्रतूनित्यर्थः । एष्विति । पृथिव्यादिषु । ते संस्तुता इत्यादि । अग्निष्टोमो ज्योतिश्च गौश्चायुश्चेत्येते त्रयोपि सह स्तुता विराजमभिसम्पद्यन्ते । नवाधिकं षट्छतं स्तोत्रीया इति । न ह्येषामन्यतमः कश्चित्त्रिकस्य प्रथमोस्तीत्याशङ्क्य ज्योतिष एव गुणवत्त्वात् प्राथम्यमितरयोश्च तदभावात् तदभावं च दर्शयति - द्वे इत्यादि । व्याख्यानम् । ज्योतिषश्च स्वर्गस्थानीयत्वात् विराडभिसम्पत्त्या च प्राथम्यमिति नवतिशतस्तोत्रीयोग्निष्टोम इत्युक्तम् । अत्र समुदायस्यापि विराट्सम्पत्त्या तस्य प्राधान्यमिति 'ऊर्जमेवावरुन्धते' इत्युक्तम् । ततस्ते यजमानाः प्रथममेव विराड्भावेन क्षुधा आर्तिं नार्छन्ति न गच्छन्ति । 'गोपोषं पुष्णाति' इतिवत्सामान्यविशेषभावादपौनरुक्त्यम् । किञ्च - अक्षोधुकाः अक्षुच्छीला एव भवन्ति सत्रिणः । छान्दस उकञ् । कस्मादेवमुच्यत इत्याह - क्षुत्संबाधा इत्यादि । क्षुधा संबाध्यन्ते इति क्षुरसंबाधाः । दासीभारादिः । यद्वा - क्षुन्निमितं संबाधा एषामिति बहुव्रीहिः । एवंस्वभावा एव सत्रिणो भवन्ति ॥
3 इदानीं च क्रतुत्वेन षडहं रूपयति - अग्निष्टोमावित्यादि अग्निष्टोमौ द्वौ अभितष्षडहस्यास्य आदावन्ते च भवतः । प्रधी ताविति । प्रान्ते धीयेते इति प्रधी प्रकर्षेण धार्यते चक्रमाभ्यामिति । 'उपसर्गे घोः किः' । तौ च पर्यन्तफलके याभ्यां विष्कम्भार्थप्रमाणाभ्यां सर्वं चक्रं परितो व्याप्यत इति । अयमर्थः - यावेतावग्निष्टोमावभितः स्थितौ तावस्य चक्रस्य प्रधिस्थानीयौ वर्तेते इति । उक्थ्या मध्य इत्यादि । ये गोआयुषी गोआयुषी इति चत्वारः उकथ्याः ते अस्य चक्रस्य मध्ये भवन्ति । कथं तेषामवस्थानमित्याह - नभ्यं तदिति । चक्रस्य मध्ये नभ्यवत् परिमण्डलाकारेण वर्तते । नाभये हितं नभ्यम् । 'नाभिनभं च' इति यत्प्रत्ययः, नभभावश्च, 'यतो नावः' इत्याद्युदात्तत्वम् । तदेतत्परियत् परितो गच्छेत् देवचक्रं देवाः क्रियन्ते इज्यन्तेऽस्मिन्निति देवचक्रं षडहात्मकम् । यदेतेन षडहेन यन्ति । देवचक्रमेव देवसेनामेव समारोहन्ति सङ्गन्ता आरोहन्ति । तच्चारिष्ट्यै अहिंसायै च भवति । ते हि देवचक्रं समारुह्य वर्तमानाः स्वस्ति अविनाशेन अभिमतफलमश्नुवते ॥
4 एवं षडहं संपाद्य संप्रति मास संपादनार्थमाह - षडहेनेत्यादि ॥ मासावयवास्स्तूयन्ते - षड्वा इत्यादि । गतम् । उभयतोज्योतिषा आदावन्ते न ज्योतिष्टोमाग्निष्टोमवता । द्वाविति । द्वादशत्वयोगाद्द्वादशात्मकं पुरुषमभिपर्यावर्तन्ते । पुरुषमेव लक्ष्यमाणं पुनःपुनरभ्यावर्तन्ते । द्वे सक्स्थ्यौ पादमूले । 'ई च द्विवचने' इतीकारः । द्वौ बाहू हस्तमूले आत्मा कुक्षिः शिरो ग्रीवाभ्यः परं चत्वार्यङ्गानि हस्तौ पादौ च स्तनौ स्तनाधारौ वा वक्षोग्रीवाभागौ द्वादशौ एकादशौ द्वादशाहश्च । सत्सु हि द्वादशसु पूर्वेऽपि द्वादशांशाः द्वादशैरवयवैः तद्वान् पुरुषो द्वादशः । डप्रत्ययान्तः मत्त्वर्थीयो लुप्यते । परिमाणप्रत्ययो वा । त्रय इति । नवत्वान्वयात् नवात्मकं प्राणमभिपर्यावर्तन्ते । ननु त्रयष्षडहाः अष्टादशाहा भवन्ति कथं नवेत्याह - नवान्यानीति । नवान्यानि त्रीणि नव तावत् भवन्ति । सर्वधा नवत्ववचनमनुवर्तत इति । नव वा इत्यादि । सप्त शीर्षण्याः, द्वाववाञ्चाविति । चत्वार इति । चत्वारः चतुर्विंशतिसङ्ख्यान्वयात् । नव चतुर्विंशत्यर्धमासात्मकं संवत्सरमभिपर्यावर्तन्ते । एवमेतानि चतुर्विंशतिरहानि पृष्ठ्यषडहो वक्ष्यते । मासिमासि पृष्ठान्युपयन्तीति । तेन मासः प्रतिपादितो भवति ॥
5 अधुना मासान्तरसंपादनार्थमाह - अप्रतिष्ठित इत्यादि ॥ एवं मासमात्रमनेन ब्राह्मणेन प्रतिपादितमिति मत्वा आहुरेकेऽप्रतिष्ठितस्संवत्सर इति । हेतुं चाहुर्वर्षीयान् प्रतिष्ठाया इति । प्रतितिष्ठति अभ्रंशेन तिष्ठत्यस्यामिति प्रतिष्ठा आधारः । 'आतश्चोपसर्गे 'इत्यधिकरणे अङ्प्रत्ययः । एकोयं मासः प्रतिष्ठा प्रतिपादितः । इतश्च वर्षीयान् वृद्धतरः संवत्सरस्स्यादप्रतिष्ठितः सुखेन स्थातुं न शक्नोति । प्रियस्थिरादिना वर्षादेशः । यद्वा वर्षीयान् खलु प्रतिष्ठायै प्रतिष्ठार्थं प्रभवति । न चायं प्रथमो मासः संवत्सराद्वर्षीयान् । न चास्मादन्यो वर्षीयानस्ति यः प्रतिष्ठायै स्यात् । तस्मादप्रतिष्ठितः संवत्सर इति । अस्मिन्पक्षे भावे अङ्प्रत्ययः । चतुर्थ्यर्थे षष्ठी ॥
6 अत्रोत्तरमेतावद्वा इत्यादिना ब्रूमः । मासमेकं प्रतिपाद्यायमेको मासः संवत्सर इति तु एतावत्संवत्सरस्य द्वादशानां मासानां ब्राह्मणं क्रियते यावन्मासः यावन्मासमात्रस्य ब्राह्मणं मन्यसे । 'ज्योतिष्टोमं प्रथममुपयन्ति' इत्यारभ्य 'चतुर्विंशतिरर्धमासास्संत्सरः' इत्यन्तम् । पद्दन्नादिना मासशब्दस्य मासभावः । 'ऊडिदं' इति षष्ठ्या उदात्तत्वम् । अयमेव मासोभ्यासेन .संवत्सरं पूरयिष्यतीति ब्राह्मणस्याभिप्रायः । तस्मान्मासि मासि प्रतितिष्ठन्तः प्रतिष्ठितसंवत्सरा यन्ति । तस्मान्नितरां प्रतिष्ठितः संवत्सर इति भावः । पूर्ववद्विभक्त्युदात्तत्वम् । 'अनुदात्तं च' इत्याम्रेडितस्यानृदात्तत्वम् ॥
इति सप्तमे चतुर्थे एकादशोनुवाकः ॥
पञ्चशत् 2 #
TS 7.4.11.2 TS 7.4.11.2
-म॒भि संप॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒याऽऽयु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्-वि॒राडूर्ज॑-मे॒वाव॑ रुन्धते॒ ते न क्षु॒धा ऽऽर्ति॒मार्च्छ॒न्त्यक्षो॑धुका भवन्ति॒ क्षुथ् स॑बांधा इव॒ हि स॒त्रिणो᳚ ऽग्निष्टो॒माव॒भितः॑ प्र॒धी तावु॒क्थ्या॑ मद्ध्ये॒ नभ्यं॒ तत् तदे॒तत् प॑रि॒यद्-दे॑वच॒क्रं ॅयदे॒तेन॑ - [ ]
पदपाठः (Word-by-word)
अ॒भि । समिति॑ । प॒द्य॒न्ते॒ । द्वे इति॑ । च॒ । ऋचौ᳚ । अतीति॑ । रि॒च्ये॒ते॒ इति॑ । एक॑या । गौः । अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ । एक॑या । आयुः॑ । ऊ॒नः । सु॒व॒र्ग इति॑ सुवः - गः । वै । लो॒कः । ज्योतिः॑ । ऊर्क् । वि॒राडिति॑ वि - राट् । ऊर्ज᳚म् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । ते । न । क्षु॒धा । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒न्ति॒ । अक्षो॑धुकाः । भ॒व॒न्ति॒ । क्षुथ्स॑म्बाधा॒ इति॒ क्षुत् - स॒म्बा॒धाः॒ । इ॒व॒ । हि । स॒त्रिणः॑ । अ॒ग्नि॒ष्टो॒मावित्य॑ग्नि - स्तो॒मौ । अ॒भितः॑ । प्र॒धी इति॑ प्र -धी । तौ । उ॒क्थ्याः᳚ । मद्ध्ये᳚ । नभ्य᳚म् । तत् । तत् । ए॒तत् । प॒रि॒यदिति॑ परि - यत् । दे॒व॒च॒क्रमिति॑ देव - च॒क्रम् । यत् । ए॒तेन॑ ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 7.4.11.3 TS 7.4.11.3
षड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते स्व॒स्ति सम॑श्नुवते षड॒हेन॑ यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्युभ॒यतो᳚ ज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ सं प॑द्यन्ते द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ᳚ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ᳚ द्वाद॒शौ - [ ]
पदपाठः (Word-by-word)
ष॒ड॒हेनेति॑ षट् - अ॒हेन॑ । यन्ति॑ । दे॒व॒च॒क्रमिति॑ देव-च॒क्रम् । ए॒व । स॒मारो॑ह॒न्तीति॑ सं - आरो॑हन्ति । अरि॑ष्ट्यै । ते । स्व॒स्ति । समिति॑ । अ॒श्नु॒व॒ते॒ । ष॒ड॒हेनेति॑ षट् - अ॒हेन॑ । य॒न्ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुषु॑ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । उ॒भ॒यता᳚ज्योति॒षेत्यु॑भ॒यतः॑-ज्यो॒ति॒षा॒ । य॒न्ति॒ । उ॒भ॒यतः॑ । ए॒व । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्र॒ति॒तिष्ठ॑न्त॒ इति॑ प्रति-तिष्ठ॑न्तः । य॒न्ति॒ । द्वौ । ष॒ड॒हाविति॑ षट्-अ॒हौ । भ॒व॒तः॒ । तानि॑ । द्वाद॑श । अहा॑नि । समिति॑ । प॒द्य॒न्ते॒ । द्वा॒द॒शः । वै । पुरु॑षः । द्वे इति॑ । स॒क्थ्यौ᳚ । द्वौ । बा॒हू इति॑ । आ॒त्मा । च॒ । शिरः॑ । च॒ । च॒त्वारि॑ । अङ्गा॑नि । स्तनौ᳚ । द्वा॒द॒शौ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 7.4.11.4 TS 7.4.11.4
तत् पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रयः॑ षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ सं प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै पुरु॑षे प्रा॒णास्तत् प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वारः॑ षड॒हा भ॑वन्ति॒ तानि॒ चतु॑र्विꣳशति॒रहा॑नि॒ सं प॑द्यन्ते॒ चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रस्तथ् सं॑ॅवथ्स॒रमनु॑ प॒र्याव॑र्त॒न्ते ऽप्र॑तिष्ठितः संॅवथ्स॒र इति॒ खलु॒ वा आ॑हु॒र्वर्.षी॑यान् प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै ( ) सं॑ॅवथ्स॒रस्य॒ ब्राह्म॑णं॒ ॅयाव॑न्मा॒सो मा॒सिमा᳚स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥
पदपाठः (Word-by-word)
तत् । पुरु॑षम् । अन्विति॑ । प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । त्रयः॑ । ष॒ड॒हा इति॑ षट् - अ॒हाः । भ॒व॒न्ति॒ । तानि॑ । अ॒ष्टाद॒शेत्य॒ष्टा - द॒श॒ । अहा॑नि । समिति॑ । प॒द्य॒न्ते॒ । नव॑ । अ॒न्यानि॑ । नव॑ । अ॒न्यानि॑ । नव॑ । वै । पुरु॑षे । प्रा॒णा इति॑ प्र - अ॒नाः । तत् । प्रा॒णानिति॑ प्र-अ॒नान् । अन्विति॑ । प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । च॒त्वारः॑ । ष॒ड॒हा इति॑ षट्- अ॒हाः । भ॒व॒न्ति॒ । तानि॑ । चतु॑र्विꣳशति॒रिति॒ चतुः॑-विꣳ॒॒श॒तिः॒ । अहा॑नि । समिति॑ । प॒द्य॒न्ते॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्यद्‌र्ध - मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । तत् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । अन्विति॑ । प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । इति॑ । खलु॑ । वै । आ॒हुः॒ । वर्.षी॑यान् । प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायाः᳚ । इति॑ । ए॒ताव॑त् । वै ( ) । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । ब्राह्म॑णम् । याव॑त् । मा॒सः । मा॒सिमा॒सीति॑ मा॒सि - मा॒सि॒ । ए॒व । प्र॒ति॒तिष्ठ॑न्त॒ इति॑ प्रति - तिष्ठ॑न्तः । य॒न्ति॒ ॥
पदसंख्या: 58