पञ्चशत् 1 #
मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीवः॒ छागैः᳚ शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दु॒बंर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृथ् स्तोमै॒रव॑न्तीः॒ स्थाव॑न्तीस्त्वाऽवन्तु प्रि॒यं त्वा᳚ प्रि॒याणां॒ ॅवर्.षि॑ष्ठ॒माप्या॑नां निधी॒नां त्वा॑ निधि॒पतिꣳ॑ हवामहे वसो मम ॥
पदपाठः (Word-by-word)
मे॒षः । त्वा॒ । प॒च॒तैः । अ॒व॒तु॒ । लोहि॑तग्रीव॒ इति॒ लोहि॑त - ग्री॒वः॒ । छागैः᳚ । श॒ल्म॒लिः । वृद्ध्या᳚ । प॒र्णः । ब्रह्म॑णा । प्ल॒क्षः । मेधे॑न । न्य॒ग्रोधः॑ । च॒म॒सैः । उ॒दु॒म्बरः॑ । ऊ॒र्जा । गा॒य॒त्री । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । त्रि॒वृदिति॑ त्रि - वृत् । स्तोमैः᳚ । अव॑न्तीः । स्थ॒ । अव॑न्तीः । त्वा॒ । अ॒व॒न्तु॒ । प्रि॒यम् । त्वा॒ । प्रि॒याणा᳚म् । वर्.षि॑ष्ठम् । आप्या॑नाम् । नि॒धी॒नामिति॑ नि - धी॒नाम् । त्वा॒ । नि॒धि॒पति॒मिति॑ निधि - पति᳚म् । ह॒वा॒म॒हे॒ । व॒सो॒ इति॑ । म॒म॒ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अतः परमश्वमेधमन्त्राः । तत्र अपाव्यानि जुहोति - मेषस्त्वेति ॥ रात्रिहोमेष्वग्निपर्यग्निकरणे चाश्वस्य । हे अश्व पचतैः पचनीयैः अन्नैस्सह मेषः पचनीयानां मुख्यस्त्वामवतु अनुप्रविशतु । अवतिरनेकार्थः । पचतेरौणादिकोतच्, । लोहितग्रीवोऽजानां मुख्यः छागैस्सह त्वामवत्वित्येव । अत्र सहाभिगमनेऽवतिर्वर्तते । यथोक्तम् - 'पर्यग्निकृतानारण्यानुत्सृजन्ति' 'वाडवे पुरुषवाजः पुरो नीयते अश्वस्य' इति । शल्मलिः पादपो वर्षिष्ठः वृद्ध्या सह त्वामवतु अनुप्रविश्य वर्धयतु । पर्णः पलाशः प्रशस्तानां प्रथमः स ब्रह्मणा मन्त्रैर्ब्राह्मणैर्वा त्वामनु रक्षतु । जातावेकवचनम् । प्लक्षो यज्ञियानां मुख्यः स मेधेन यज्ञेन यज्ञबलेन वा त्वामवतु प्राप्नोतु । न्यग्रोधश्चमसैः पात्रैः सह त्वामवतु धारयतु । यथोक्तम् - 'नैयग्रोधश्चमसः' इति । उदुम्बरः ऊर्जा रसानां मुख्यः ऊर्जा सह त्वामवतु रसेन वर्धयतु । गायत्री छन्दसामाद्या छन्दोभरुष्णिगादिभिः सह त्वामवतु रक्षतु । त्रिवृत्स्तोमानां प्रथमः त्वां स्तोमैः पञ्चदशादिभिः सह अवतु । अवन्तीस्स्थेति । पङ्क्तिप्रकारश्चतुष्पदः एकादशाक्षरः प्रथमः द्वितीयतृतीयौ षडक्षरौ षोडशाक्षरश्चतुर्थः । अवन्तीः अवन्त्यः । 'वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । या अन्या अपि प्रजा उवन्त्यो भवन्ति आप ओषधयो वा । यद्वा - पूर्वोक्तानां मेषादीना अवतां सम्बन्धिन्यो याः पत्न्या भवन्ति ताः सर्वाः त्वमेवासि । सर्वथा पुरुषव्यत्ययात् वचनव्यत्ययाद्वा न मुच्यामहे । ता अवन्त्यः त्वामवन्तु । तं त्वा प्रियाणां प्रियं आप्यानां वृद्धानामपि वर्षिष्ठं वृद्धतमम् । पूर्ववद्वर्षादेशः । आङ्पूर्वाद्व्यायतेः छान्दसो ङः, अप्छब्दाद्वा ण्यः' । वृषादिर्द्रष्टव्यः । अनवधारणादनवग्रहः । निधीनामपि निधिपतिं महानिधिं महान्तं निधिम् । यद्वा - सर्वेषां निधीनां संबन्धिनं निधिपतिं स्वामिनम् । अथवा - निधयो निधातारस्तेषामपि निधिपतिं अतिशयेन निधातारम् । सर्वथा 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । ईदृशं त्वां हवामहे जुहुमः । व्यत्ययेन शप् आत्मनेपदं च । यद्वा - होतुमाह्वयामः । 'बहुलं छन्दसि' इति संप्रसारणम् । हे वसो धनस्थानीय मम । यद्वा - मम वासयितः पुण्येषु लोकेषु । 'परमपि छन्दसि' इति परस्य षष्ठ्यन्तस्य पूर्वामन्त्रितानुप्रवेशात् षष्ठ्यन्तामन्त्रितसमुदायो निहन्यते ॥
इति सप्तमे चतुर्थे द्वादशोनुवाकः ॥